SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २६ प्रज्ञापनाउपाङ्गसूत्र-१-१/-/-/१६ गच्छन्ति च तिर्यञ्चस्तदधोगत्यनताऽहेतुः ॥" । तथा च सति सिद्धं स्त्रीपुंसनामधोगतिवैषम्येऽपि निर्वाणं समं, यदप्युक्तम्-'अपि च यासां वादलब्धावित्यादि' तदप्यश्लील, वादविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च॥१॥ “वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च। जिनकल्पमनः पर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥" अपि च-यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत्, यथा जम्बूयुगादारात् केवलज्ञानाभावो, नच प्रतिपाद्यते क्वपिस्त्रीणां निर्वाणाभावइति, तस्मादुपपद्यतेस्त्रीणां निर्वाणमितिकृतंप्रसङ्गेन । तथापुंल्लिङ्गे-शरीर-निवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंल्लिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गेरजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथाऽन्यलिङ्गे-परिव्राजकादिसम्बधिनिवल्कलकाषायादिरूपेद्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् २ समये एक्का एव सन्तः सिद्धा एकसिद्धाः, ‘अनेगसिद्धा' इतिएकस्मिन् समयेऽनेके सिद्धा अनेकसिद्धाः,अनेके चैकस्मिन्समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, यस्मादुक्तम्॥१॥ “बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छनउइ उ दुरहियमद्रुत्तरसयं च ॥" अस्याविनेयजनानुग्रहायव्याख्या-अष्टौ समयान्यावनिरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिध्यन्तः प्राप्यन्ते, किमुक्तंभवति?-प्रथमे समयेजघन्यतएको द्वौवोत्कर्षतो द्वात्रिंशत्सिध्यन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरं, तथा त्रयस्तिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरंसिध्यन्तः सप्त समयान्यावत्प्राप्यन्ते, परतोनियमादन्तरं, तथाएकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतः षट्समयान्यावदवाप्यन्तेपरतोऽवश्यमन्तरं, तथैकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षत; पञ्च समयान् यावदवाप्यन्ते ततः परमन्तरं, त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरःसमयान्यावत्तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयः षन्नवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतस्त्रीन् समयान् यावत्परतो नियमादन्तरं, तथा सप्तनवत्यादयो द्युत्तरशतपर्यन्ता निरन्तरंसिध्यन्त उत्कर्षतोद्वौसमयौपरतोऽवश्यमन्तरं, तथा त्र्यत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तोनियमादेकमेव समयंयावदवाप्यन्ते, न द्विवादिसमयान्, तदेवमेकस्मिन् समये उत्कर्षतोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः। आह-तीर्थसिद्धातीर्थसिद्धरूपभेदद्वयएवशेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम्?, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं च एष शास्त्रारम्भप्रयास इति शेषभेदो पादानम्, ___ उपसंहारमाह-'सेत्तमि'त्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy