________________
२५
पदं-१, उद्देशकः-, द्वार-- न निर्वाणमिति, तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्तया स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकंप्रमाणं विजम्भते, देशकालविप्रकृप्टेषु प्रत्यक्षस्याप्रवृत्तेः, तदप्रवृत्तौ चानुमानस्याप्यसम्भवात्, नापितासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथेदमेव प्रस्तुतं सूत्रं, ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथमन्येथाः-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽ- नुभीयते, तदयुक्तमुक्तं, युक्तिविरोधात्,
तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः, स चायोग्यवस्थाचरमसमयभावी, अयोग्यवस्था चास्मादशामप्रत्यक्षा, ततः कथं विरोधगतिः?, न हि अदटेन सह विरोधःप्रतिपत्तुंशक्यते, मा प्राप्तयुरुषेष्वपिप्रसङ्गः, ननुजगतिसर्वोत्कृष्टपदप्राप्तिःसर्वोत्कृष्टेनाध्यवसायेनावाप्यते, नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धं,
सर्वोत्कृष्टे च द्वेपदे-सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानंच, तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं, तत्र स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वाभावात्, सम्मूर्छिमादिवत्, अपि च-यासांवादलब्धविकुर्वणत्वादिलब्धौ पूर्वगतश्रुताधिगतौ चन सामर्थ्यमस्तितासां मोक्षगमनसामर्थ्यमित्यतिदुःश्रद्धेयं,
तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, तत एतावताकथमवसीयते-निःश्रेयसमपिप्रति तासांसर्वोत्कृष्टमनोवीर्यपरिणत्यभावोन हि यो भूमिकर्षणादिकं कर्मकर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यम्, प्रत्यक्षविरोधात्, अथ सम्मूर्छिमादिषूभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र ६ष्टस्तर्हि कथमत्रावसीयते?
नखलुबहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, किन्त्वन्तर्व्याप्तया, अन्तर्व्याप्तिश्च प्रतिबन्धवलेन, नचात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनाभाविनिर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभावात्, न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्याभावप्रसङ्गः, यद्येवंतर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभाव इति?, उच्यते, तथाभवस्वाभाव्यात, तथाहि
तेसम्मूर्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादिकं यथावप्रतिपत्तुं शक्यन्ते, ततोन तेषांनिर्वाणसम्भवः, स्त्रियस्तुप्रागुक्तप्रकारेणयथावत्सम्यग्दर्शनादिरलत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च-भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परत;, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत्पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषये मनोवीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम्, आह च
॥१॥ “विषयमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org