________________
-
-
पदं-१, उद्देशकः-, द्वार
२७ मू. (१७) से किंतंपरम्परसिद्धअसंसारसमावण्णजीवपन्नवणा?, २ अनेगविहा पन्नत्ता, तंजहा-अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जावसद्धिजसमयसिद्धा असजिसमयसिद्धाअनन्तसमयसिद्धा, सेत्तं परम्परसिद्धासंसारसमावण्णजीवपन्नवणा, सेत्तं असंसारसमावण्णजीवपन्नवणा ।
वृ.अथ कासापरम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना?,सूरिराह-परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनकेविधा प्रज्ञप्ता, परम्परसिद्धानामनेकविधत्वात्, तदेवानेकविधत्वमाह'तंजहे'त्यादि, 'तद्यथे' त्यनेकविधत्वोपदर्शने, 'अप्रथमसमयसिद्धा' इति, न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः-परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वसमयाद्वितीयसमवर्तिन इत्यर्थः,त्र्यादिषुतुसमयेषुद्वितीयसमयसिद्धादयउच्यन्ते, यद्वासामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं, तत एतद्विशेषतो व्याचष्टे
द्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुःसमयसिद्धा इत्यादि यावच्छब्दकरणात् पञ्चमसमयसिद्धादयः परिगृह्यन्ते । ‘सेत्त' मित्यादि निगमनद्वयं सुगम, तदेवमुक्ता असंसारसमापन्नजीवप्रज्ञापना ।। सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
मू. (१८) से किंतंसंसारसमावण्णजीवपन्नवणा?,संसारसमावण्णजीवपन्नवणापंचविहा पन्ता, तंजहा-एगेदियसंसारसमावण्णजीवपन्नवणा बेइंदियसंसारसमावण्णजीवपन्नवणा तेइंदियसंसारसमावण्णजीवपन्वणा चउरिदियसंसारसमावण्णजीवपन्नवणा पंचिंदियसंसारसमावण्णजीवपन्नवणा।
वृ. अध का सा संसारसमापन्नजीवप्रज्ञाना?, सूरिराह-संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता, तद्यथा-एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकंस्पर्शनलक्षणमिन्द्रियं येषां तेएकेन्द्रियाः-पृथिव्युम्वुतेजोवायुवनस्पतयो वक्ष्यमाणस्वरूपास्तेचतेसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्खशुक्तिकादयः, त्रीणि-स्पर्शनरसनाघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणादयः, चत्वारि स्पर्शनरसनाघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः-दंशमशकादयः, पञ्च स्पर्शनरसनाघ्राणचक्षुःश्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मत्स्यमकरमनुजादयः।
अमीषां चैकादिसङ्ख्यानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण लाभ इति सम्प्रत्ययार्थमित्थं क्रमेणैकेन्द्रियाद्युपन्यासः।
इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणिभावेन्द्रियाणिच, तत्र द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्द्यध्यनटीकायां व्याख्यातानीति न भूयो व्याख्यायन्ते, भावेन्द्रियाणिक्षयोपशमोपयोगरूपाणि, तानि चानियतानि, एकेन्द्रियाणामपिक्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात्, केषाञ्चितत्तत्फलदर्शनात्, तथाहि-बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धाघ्राणरसास्वादस्तनाद्यवयवस्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्फफलानि प्रयच्छन्तः, उक्तं च
॥१॥ “जंकिर बउलाईणं दीसइ सेसिंदिओवलम्भोऽवि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org