________________
२४०
प्रज्ञापनाउपाङ्गसूत्र-१-१०/-/-/३६१ अचरमंतपएसा य' इति, चरमाण्येवान्तवर्तित्वात् अन्ताश्चरमान्तास्त प्रदेशाश्चचरमान्तप्रदेशाः, अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तः अचरमान्तस्तप्रदेशा अचरमान्तप्रदेशाः ।
तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह-गौतम ! सा रत्नप्रभा पृथिवी न चरमा, चरमत्वं ह्यापेक्षिकमित्युक्तं, न चात्रान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः पृष्टत्वात्, नाप्यचरमा, तत एव हेतोः, तथाहि - अचरमत्वमपि आपेक्षिकं, न चात्रान्यदपेक्षणीयमस्तीति, किमुक्तं भवति?-इयं रत्नप्रभा पृथिवी न पश्चिमा नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति, अत एवनचरमाणि, चरमत्वव्यपदेशस्यैवासंभवतस्तद्विषयबहुवचनासंभवात्, तथाहि
यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेर्नोपपद्यते तदा कथं तद्विषयं बहुवचनमुपषतुमर्हतीति ?, एवमचरमाण्यपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्यासंभवात्, तथा न च चरमान्तप्रदेशा नाप्यचरमान्तप्रदेशाः, उक्तयुक्त्या चरमत्वस्वाचरमत्वस्य चासंभवतस्तत्प्रदेशकल्पनाया अप्यसंभवात्, यच्चेवंतर्हि किस्वरूपा सा? इत्यत आह
'नियमाद्'नियमेनाचरमंचरमाणिच, किमुक्तंभवति?-यदीयमखण्डरूपाविवक्षितत्वात् पृच्छयते तदा यथोक्तभङ्गानामेकेनापि भङ्गेन व्यपदेशो न भवति, यदा त्वसङ्खयेय प्रदेशावगाढेत्यनेकावयविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि-रत्नप्रभा पृथिवी तावदनेन प्रकारेण व्यवस्थिता,।
एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं तथाविधविशिष्टैकत्वपरिणामपरिणतानितानिचरमाणि, यत्पुनर्मध्ये महद्रत्नप्रभायाःखण्डंतत्तथाविधैकत्वपरिणामत्वादेकत्वेन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया चिन्तायामचरमं चरमाणि चेत्यखण्डैकनिर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम्-चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाच, तथाहि
ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः,अन्येतुव्याचक्षते-चरमाणिनामतथाविधप्रविष्टेतरप्रान्तकप्रादेशिकश्रेणिपटलरूपाणि, मध्यभागोऽचरमइति, तदपि समीचीनं, दोषाभावात, चरमान्तप्रदेशा यथोक्तरूपप्रान्तकप्रादेशिकश्रेणिपटलगताःप्रदेशाः,अचरमान्तप्रदेशामध्यभागगताःप्रदेशाः,अनेन निर्वचनसूत्रेण एकान्तदुर्नयनिरोधप्रधानेन अवयवावयविरूपंरत्नप्रभादिकं वस्तु तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदितं, यथा चावयवावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां बाह्यवस्तुप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽवधाएँ । “एवं जाव अहेसत्तमाए पुढवी'त्यादि, यथारलप्रभा पृथिवीप्रश्ननिर्वचनाभ्यामुक्ताएवं शर्कराद्याअपिपृथिव्यः सौधर्मादीनिच विमानानि अनुत्तरविमानपर्यवसानानि ईषयाग्भारा लोकश्च वक्तव्यः ।
सूत्रपाठोऽपि सुगमत्वात्स्वयं परिभावनीयः, स चैवम्-‘सक्करप्पभा णं भंते ! पुढवी किं चरमा अचरमा चरमाणि अचरमाणि' इत्यादि।
__एवं अलोगेवि' इति, एवम्-उक्तेन प्रकारेणालोकोऽपि वक्तव्यः, सचैवम्-“अलोए णं भंते ! किं चरमे अचरमे' इत्यादि प्रश्नसूत्रं तथैव निर्वचनसूत्रं 'गोयमा ! अचरमेचरमाणिय चरमंतपदेसायअचरमंतपदेसाय' तत्र चरमाणियानिखण्डानिलोकनिष्कुटेषुप्रविष्टानि शेषमन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org