SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पदं-८, उद्देशकः-, द्वारं २३५ सङ्खयेयगुणाः, सजातीयात्परजातीयाच्च तेषां भयसंभवतो भयोपयोगस्य च प्रभूततमकालत्वात् पृच्छासमये भयसंज्ञोपयुक्तानामतिप्रभूततराणामवाप्यमानत्वात्, तेभ्यः सङ्खयेयगुणाः आहारसंज्ञोपयुक्ताः,प्रायः सततं सर्वेषामाहार(संज्ञा)संभवात्।। मनुष्या बाह्यं कारणमधिकृत्य बाहुल्येन मैथुनसंज्ञोपयुक्ताः स्तोका शेषसंज्ञोपयुक्ताः, सन्ततिभावमान्तरानुभवभावरूपंप्रतीत्याहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका भयसंज्ञोपयुक्ताः, स्तोकानां स्तोककालं च भयसंज्ञासंभवात्, तेभ्य आहारसंज्ञोपयुक्ताः सङ्खयेयगुणाः, आहारसंज्ञोपयोगस्य प्रभूततरकालभावात्, अत एव हेतोः तेभ्यःसङ्खयेयगुणाः परिग्रहंज्ञोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः सङ्खयेयगुणाः, मैथुनसंज्ञाया अतिप्रभूततरकालं यावद् भावतःपृच्छासमये तेषामतिप्रभूततराणामवाप्यमानत्वात् तथा बाह्य कारणमधिकृत्य बाहुल्येन देवाः परिग्रहसंज्ञोपयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात्, संततिभावंयथोक्तरूपंप्रतीत्यपुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ताअपि, अल्पबहुत्वचिन्तायांसर्वस्तोका आहारसंज्ञोपयुक्ताः, आहारेच्छाविरहकालस्यातिप्रभूततयाआहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषांपृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात्, ततो भयसंज्ञोपयुक्ताः सङ्खयेयगुणाः, भयसंज्ञायाःप्रभूतानां प्रभूतकालं च भावात्, तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सङ्खयेयगुणाः, तेभ्यःपरिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । पदं-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे अष्टमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (पदं-९-योनिः) वृ. तदेवं व्याख्यातमष्टमंपदं, अधुना नवममारभ्यते, तस्य चामभिसंभन्धः-इहानन्तरपदे सत्त्वाना संज्ञापरिणामा उक्ताः, इह तु तेषामेव योनयः प्रतिपाद्यन्ते, तत्र चेदमादिसूत्रम् मू. (३५६) कतिविहा णं भंते ! जोणी पं०, गोयमा ! तिविहा जोणी प०, तं०-सीता जोणी उसिणा जोणी सीतोसिणा जोणी। पृ. 'कतिविहाणं भंते ! जोणी' इत्यादि, कतिविधा-कतिप्रकाराणमिति पूर्ववत् भदन्त योनिः प्रज्ञप्ता ?, अथयोनिरिति कःशब्दार्थः ?, उच्यते, “यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तःसन्त औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः-उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह गौतम! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, मू. (३५७) नेरइयाणंभंते! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी? गोयमा! सीतावि जोणी उसिणावि जोणी नो सीतोसिणा जोणी। असुरकुमाराणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy