________________
२३२
गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा ।।
वृ. 'नेरइया णं भंते!' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! 'केवइकालस्स' इति प्राकृतशैल्या पञ्चम्यर्थे वा तृतीयार्थे वा षष्ठी ततोऽयमर्थः कियतः कालात् कियता वा कालेन 'आणमंति' आनन्ति 'अन् प्राणने ' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगंपरिभावनीयं, ‘पाणमंति वा' प्राणन्ति वा शब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतःस्पष्टयति- 'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छ्वसन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति 'णम् प्रह्णत्वे;' इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते - आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उच्छ्वासनिः श्वासक्रिया परिगृह्यते उच्छ्वसन्ति निःश्वसन्तीत्यनेन तु बाह्या, एवं गौतमेन प्रश्ने कृते भगवानाह -
प्रज्ञापनाउपाङ्गसूत्रं-१-७/-/-/३५३
गौतम! सततमविरहितं, अतिदुःखिता हि नैरयिकाः, दुःखितानां च निरन्तरमुच्छ्वासनिःश्वासौ, तथा लोके दर्शनात्, तच्च सततं प्रायोवृत्त्याऽपि स्यादत आह- 'संतयामेव ' सततमेवअनवरतमेव, नैकोऽपि समयस्तद्विरहकालः, दीर्घत्वं प्राकृतत्वात्, आनमन्तीत्यादे; पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथाच सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च ।
असुरकुमारसूत्रे 'उक्कोसेणं सातिरेगस्स पक्खस्स' इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छ्वासनिःश्वासक्रियाविरहकालः, असुरकुमाराणां चोत्कृष्टा स्थितिरेकं सातिरेकं सागरोपमं 'चमरबलि सारमहिय' मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर्ध्वमुच्छ्वसन्तीत्यर्थः, पृथिवीकायिकसूत्रे 'वेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ? - अनियतविरहकालप्रमाणा तेषामुच्छ्वासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छ्वासनिःश्वासक्रियाविरहकालः दुःखरूपत्वादुच्छ्वासनिःश्वासक्रियायाः, कततो यथा यथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छ्वासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः ।
पदं - ७ - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रस्य सप्तमपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
पदं - ८ - संज्ञा
बृ. तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चामभिसम्बन्धः इहानन्तरपदे सत्त्वानामुच्छ्वासपर्याप्तिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयांगचात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाह
मू. (३५४) कइ णं भंते ! सन्नाओ पन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International