SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ प्रज्ञापनाउपाङ्गसूत्र-१-५/-/-/३०८ यदधिकृत्य सङ्खयेयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्खयेयकेन भागेहते यल्लभ्यते तावताहीनं, गुणसङ्ख्यायांतुयद्यतः सोयगुणं तदवधिभूतमुत्कृष्टेन सङ्घयेकेन गुणितं सद्यावद्भवति तावत्प्रमाणमवसातव्यं, यच्च यतोऽसङ्खयेयगुणंतदवधिभूतमसङ्खयेयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितंसद्यावद्भवतितावदवसेयं, यच यस्मादनन्तगुणंतदवधिभूतंसर्वजावानन्तकरूपेण गुणकारेणगुण्यते गुणितं सद्यावद्मवतितावप्रमाणं द्रष्टव्य, तथा चैतदेवकर्मप्रकृतिसङ्ग्रहिण्यां षट्स्थानकप्ररूपणाऽवसरेभागहारगुणकारस्वरूपमुपवर्णितं सव्वजियानंतमसंखलोगसंखेज्जगस्स भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तषट्स्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपर्यायपरिमाणंतत्त्वतोऽनन्तरसङ्ख्यात्मकमप्यसद्मावस्थापनया किल दशसहस्राणितस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि शतं च सर्वजीवानन्तभागहारलब्धत्वादनन्ततमो भागः, ततो यस्य हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णवर्णपर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनः तदपेक्षया तुसोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण भागो हियते लब्धे द्वे शते एषोऽसङ्खयेयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायादशसहस्राणि शतद्वयेन हीनानि अपरस्य परिपूर्णानि दश सहस्रणि तत्र यः शतद्वयहीनदशसहस्रप्रमाणकृष्णवर्णपर्यायः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्खयेयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसङ्खयेयभागाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशहसनसङ्ख्यायकस्योत्कृष्टसङ्ख्येयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण भागो हियते तल्लब्धं सहस्रं एष किल सङ्ख्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नव सहनणि अपरस्य दश सहस्राणि नव सहस्राणि तु दशसहस्रेभ्यः सहस्रेण हीनानि सहस्रं च सङ्खयेयतमो भाग इति नवसहस्रप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्खयेयभागहीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्य किल कृष्णवर्णपर्यापरिमाणं सहस्रं अपरस्य दश सहस्राणि, तत्र सहनं दशकेनोत्कृष्टसङ्ख्यातककल्पेन गुणितंदशसहस्रसङ्ख्याकंभवति इति सहस्रसञ्जयकृष्णवर्णपर्यायो नारको दशसहनसङ्ख्याककृष्णवर्णपर्यायनारकापेक्षया सङ्घयेयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्घयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायाग्रं द्वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते असङ्ख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, -ततो द्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसङ्ख्येयगुणहीनः तदपेक्षया त्वितरोऽस्खयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्तपरिमाणपरिकल्पितेन (शत) गुण- कारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्ण-पर्यायनारकापेक्षयाअननतगुणहीनः इतरस्तुतदपेक्षयाऽनन्तगुणाभ्यधिकः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy