________________
पदं - ५, उद्देशक:-, द्वारं
यथा कृष्णवर्णपर्यायानधिकृत्य हानौ वृद्धौ च षट्स्थानपतितत्वमुक्तमेवं शेषवर्णगन्धरसस्पर्शैरपि प्रत्येकं शट्स्थानपतितत्वं भावनीयं । तदेवं पुद्गलविपाकिनामकर्मोदयजनितजीवौदयिकभावाश्रयेण षट्स्थानपतितत्वमुपदर्शितं इदानीं जीवविपाकिज्ञानावरणीयादिकर्मक्षयोपशमभावाश्रयेण तदुपदर्शयति
'आभिनिबोहियनाणपञ्जवेहिं' इत्यादि, पूर्ववत् प्रत्येकमाभिनिबोधिकादिषु षट्स्थानपतितत्वं भावनीयं, इह द्रव्यतस्तुल्यत्वं वदता संमूर्च अछिमसर्वप्रभेदनिर्भेदबीजं मयूराण्डकरसवदनभिव्यक्त- देशकालक्रमं प्रत्यवबद्धविशेषबेदपरिणतेर्योग्यं द्रव्यमित्यावेदितं, अवगाहनया चतुःस्थानपतितत्व - मभिवदात क्षेत्रतः सङ्कोचविकोचधर्म्मा आत्मा न तु द्रव्यप्रदेशसङ्ख्याया इति दर्शितं, उक्तं चैतदन्यत्पापि
119 11
“विकसनसङ्कोचनयोर्नस्तो द्रव्यप्रदेशसङ्ख्यायाः ।
वृद्धिहासौ स्तः क्षेत्रतस्तु तावात्मस्तस्मात् ॥”
१९३
स्थित्या चतुःस्थानपतित्वं वदताऽऽयुःकर्मस्थितिनिर्वर्त्तकानामध्यवसायस्थानानामुत्कर्षापकर्षवृत्तिरुपदर्शिता, अन्यथा स्थित्या चतुः स्थानपतितत्वायोगात्, आयुः कर्म चोपलक्षणं तेन सर्वकर्मस्थितिनिर्वर्त्तकेष्वप्यध्यवसायेषूत्कर्षापकर्षवृत्तिरवसातव्या, कृष्णादिपर्यायैः षट्स्थानपतितत्वमुपदर्शयता एकस्यापि नारकस्य पर्याया अनन्ताः किं पुनः सर्वेषां नारकाणामिति दर्शितं, अथ नारकाणां पर्यायानन्त्यं पृष्टेन भगवता तदेव पर्यायानन्त्यं वक्तव्यं न त्वन्यत् ततः किमर्थं द्रव्यक्षेत्रकालभावाभिधानमिति ?,
तदयुक्तं, अभिप्रायापरिज्ञानात्, इह न सर्वेषां सर्वे स्वपर्यायाः समसङ्ख्याः किं तु षट्स्थान पतिताः, एतच्चानन्तरमेव दर्शितं तच्च षट्स्थानपतित्तवं परिणामित्वमन्तरेण न भवति, तच्च परिणामित्वं यथोक्तलक्षणस्य द्रव्यस्येति द्रव्यतस्तुल्यत्वमभिहितं, तथा न कृष्णादिपर्यायैरेव पर्यायवान् जीवः किं तु तत्तत्क्षेत्रसङ्कोचविकोचधर्मतयाऽपि तथा तत्तदध्यवसायस्थानयुक्ततयाऽपीति ख्यापनार्थं क्षेत्रकालाभ्यां चतुःस्थानपतितत्वमुक्तमिति कृतं प्रसङ्गेन । तदेवमवसितं नैरयिकाणां पर्यायानत्यं, इदानीमसुरकुमारेषु पर्यायाग्रं पिपृच्छिषुराह
मू. (३०९) असुरकुमाराणं भंते! केवइया पजवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, सेकेणट्टेणं भंते! एवं बुच्चइ - असुरकुमाराणं अनंता पज्जवा पन्नत्ता ?, गोयमा ! असुरकुमारे असुरकुमारस्स दव्वट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए चउट्ठाणवडिए कालवनपज्जवेहिं छट्टाणवडिए एवं नीलवन्नपज्जवेहिं लोहियवन्नपज्जवेहिं हालिद्दवन्नपज्जवेहिं सुकिल्लवनपज्जवेहिं सुब्भिगंधपजवेहिं दुब्भिगंधपज्जवेहिं तित्तरसपज्जवेहिं कडुयरसपज्जवेहिं कसायरसपज्जवेहिं अंबिलरसपज्जवेहिं महुररसपज्जवेहिं --
-कक्खडफासपज्जवेहिं मउयफासपज्जवेहिं गरुयफासपज्जवेहिं लहुयफासपज्जवेहिं सीयफासपज्जवेहिं उसिणफासपज्जवेहिं निद्धफासपज्जवेहिं लुक्खफासपज्जवेहिं आभिनिबोहियनाणंपज्जवेहिं सुयनाणपज्जवेहिं ओहिनाणपज्जवेहिं मइअन्नाणपज्जवेहिं सुयअन्नाणपज्जवेहिं विभंगनाणपञ्जवेहिं चक्खुदंसणपज्जवेहिं अचक्खुदंसणपञ्जवेहिं ओहिदंसणपज्जवेहिं छट्टाणवडिए.
10 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org