SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पदं-५, उद्देशकः-, द्वारं १९१ 'ठीईए सिय हीणे' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतित उक्तस्तथा स्थित्याऽपि वक्तव्य इति भावः, एतदेवाह-'जइहीणे' इत्यादि, तत्रैकस्यकिल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः अपरस्य तु तान्येव समयादिन्यूनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्खयेयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसङ्खयेयभागाभ्याधिकः, समयादेः सागरोपमापेक्षयाऽसङ्खयेयभागमात्रत्वात् । तथाहि-असङ्खयेयैः समयैरेकाऽऽवलिका सङ्ख्याताभिरावलिकाभिरेक उच्छ्वासनिःश्वासकालः सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेकोलवः सप्तसप्तत्यालवानामेको मुहूर्तः त्रिंशता मुहूर्तेरहोरात्रः पञ्चदशभिरहोरात्रैः पक्षः द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असङ्ख्येयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छवासमुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगैः हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसङ्खयेयभागहीनो भवति तदपेक्षयात्वितरोसद्धेययभागाभ्यधिकः, । तथा एकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः परस्य तान्येवपल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेकंसागरोपमंनिष्पद्यते, ततःपल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्खयेयभागहीनः परिपूर्णस्थितिकस्तु तदपेक्षया सङ्घयेयभागाभ्यधिकः, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागपोपमाणि, तत्रैकसागोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्ख्येयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपूर्णस्थितिकत्वप्राप्तेः, परिपूर्णस्थितिकस्तु तदपेक्षया सङ्ख्यगुणाभ्यधिकः । - -तथैकस्यदश वर्षसहस्राणिस्थितिःअपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दशवर्षसहस्राण्यसङ्खयेयरूपेणगुणकारेण गुणितानित्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततोदशवर्षसहनस्थितिकः त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्खयेयगुणहीनः तदपेक्षया तुत्रयस्त्रिंशत्सागरोपप्रस्थितिकोऽसङ्ख्येयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनाकापेक्षयाद्रव्यतो द्रव्यार्थतया प्रदेशार्थताय च तुल्यत्वमुक्त क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेने चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेनचतुःस्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घट: - __ -तथाहि-द्रव्यत एको मार्तिकः अपरः काञ्चनो राजतादिर्वा क्षेत्रत एक इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्तवैषमः परुत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः एवमन्यदपि।तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह-'कालवन्नपज्जवेहिंसियहीणेसियतुल्लेसिय अब्महिए' अस्याक्षरघटनापूर्ववत्, तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रतिपादयति 'जइ हीने' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानौ वृद्धौ च प्रत्येक षट्स्थानपतितत्वमवाप्यते, षट्स्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हृते यल्लभ्यते तेनानन्तमेन भागेन हीनं, यच्च यदपेक्षयाऽसङ्खयेयभागहीनं तस्यापेक्षणीयस्यासङ्खयेयलोकाकाशप्रदेशप्रदेशप्रमाणेन राशिना भागे हृते यल्लभ्यते तावता भागेन न्यून, यच्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy