SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० प्रज्ञापनाउपाङ्गसूत्र-१- ५/-/-/३०८ तया द्रव्यार्थतया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं । इदानी प्रदेशार्थामधिकृत्य तुल्यत्वमाह-‘पएसट्टयाए तुल्ले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदेशार्थतयाऽपिनैरयिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तया प्रदेशार्थतया, कस्मादभिहितचमिति चेत्, उच्यते,। द्रव्यद्वैविध्यप्रदर्शनार्थं, तथाहि-द्विविधंद्रव्यं-प्रदेशवत् अप्रदेशवच्च, तत्रपरमाणुरप्रदेशः, द्विप्रदेशत्रिप्रदेशादिकंतु प्रदेशवत्, एतच्च द्रव्यद्वैविधयं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि द्रव्याणि नियमात् सप्रदेशानि, 'ओगाहणट्ठयाए सिय हीणे' इत्यादि, नैरयिकोऽसङ्ख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनमवगाहः-शरीरोच्छ्रयः अवगाहनमेवार्थोऽवगाहनार्थस्तद्मावोऽवगाहनार्थता तया अवगाहनार्थतया - ___ 'सिय हीणे' इत्यादि, स्याच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य ग्रहणं, स्याद्धीनः अनेकान्तेन हीन इत्यर्थः, स्यात्तुल्यःअनेकान्तेन तुल्य इत्यर्थः, स्यादभ्यधिकः-अनेकान्तेनाभ्यधिक इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनैरयिकाणांभवधारणीयस्य वैक्रियशरीरस्य जघन्येना वगाहनाया अङ्गुलस्यासङ्घयेयो भागः उत्कर्षतः सप्त धनूंषित्रयो हस्ताः षट्चाङ्गुलानि, उत्तरोत्तरासुच पृथिवीषु द्विगुणं द्विगुणंयावत् सप्तमनरकपृथिवीनैरयिकाणांजघन्यतोऽवगाहनाऽङ्गुलस्यासङ्ख्येयो भागः उत्कर्षतः पञ्चधनुःशतानीति, । तत्र 'जइ हीणे; इत्यादि, यदि हीनस्ततोऽसङ्घयेयभागहीनो वा स्यात् सङ्खयेयभागहीनो वा सङ्ख्येयगुणहीनोवा स्यात् असङ्खयेयगुणहीनो वा, अथाभ्यधिकस्ततो ऽसद्धेययभागाभ्यधिको वा स्यात्सङ्खयेयभागाभ्यधिको वा सङ्खयेयगुणाभ्यदिको वाऽसङ्खयेयगुणाभ्याधिको वा, कथमिति चेत्?, उच्यते, एकः किल नारक उच्चैस्त्वेन पञ्चधनुःशतानिअपरस्तान्येवाङ्गुलासङ्खयेयभागहीनानि, अङ्गुलासङ्खयेयभागश्च पञ्चानां धनुःशतानामसङ्खयेये भागे वर्तते, तेन सोऽङ्गुलासङ्खयेयभाग- हीनपञ्चधनुः-शतप्रमाणः अपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षयाऽसङ्खयेयभागहीनः, इतरस्त्वितरापेक्षयाऽसद्ध्येयभागाभ्यधिकः -तथा एकः पञ्चधनुःशतान्युच्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुर्भिन्यूनानि तेच द्वे त्रीणि वा धनूंषि पञ्चाना धनुः-शतानां सङ्खयेयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनु:शतप्रमाणस्यापेक्षया सङ्घयेयभागहीनः, इतरस्तु परिपूर्णपञ्चधनुःशतप्रमाणस्तदपेक्षया सङ्खयेयभागाभ्यधिकः, तथा एकः पञ्चविंशंधनुःशतमुच्चैस्तेवेनापरःपरिपूर्णानिपञ्चधनुःशतानि, पञ्चवंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोच्चैस्त्वेऽप्यपरस्य ___ परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सङ्खयेयगुणहीनो भवति तदपेक्षया वितरः परिपूर्णपञ्चधनुःशतप्रमाणः सङ्खयेयगुणाभ्यधिकः, -तथा एकोऽपर्याप्तावस्थायामङ्गुलस्यासङ्खयेयभागावगाहेवर्तते अन्यस्तुपञ्चधनुःशतान्युचैस्तेवेन, अङ्गुलासङ्खयेयभागश्चासङ्खयेयेन गुणितःसन्पञ्चधनुःशतप्रमाणो भवति, ततोऽपर्याप्तावस्थायामङ्गुलासङ्खयेयभागप्रमाणेऽवगाहे वर्तमानः परिपूर्णपञ्चधनुःशतप्रमाणापेक्षया असङ्खयेयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु तदपेक्षयाऽसङ्खयेयगुणाभ्यधिकः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy