________________
पदं - ३, उद्देशक:-, द्वारं - २६
१६७
संखिजगुणाई || दिसाणुवाएणं सव्वत्थोवाइं दव्वाइं अहोदिसाए उड्ढदिसाए अनंतगुणाई उत्तरपुरचअछिमेणं दाहिणपच्चत्थिमेण य दोवि तुल्लाइं असंखिज्जगुणाई दाहिणपुरच्छिमेणं उत्तरपच्चत्थिमेण य दोवि तुल्लाइं विसेसाहियाइं पुरच्छिमेणं असंखिज्जगुणाइं पञ्च्चत्थिमेणं विसेसाहियाइं दाहिणेणं विसेसाहियाइं उत्तरेणं विसेसाहियाइं ।
वृ. इदमल्पबहुत्वं पुद्गलानां द्रव्यार्थत्वमङ्गीकृत्य व्याख्येयं, तथासम्प्रदायात्, तत्र 'क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमानाः पुद्गलानलोक्ये - त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, सर्वस्तोकानि त्रैलोक्यव्यापीनि पुद्गलद्रव्याणीति भावः, यस्मात् महास्कन्धा एव त्रैलोक्यव्यापिनः ते चाल्पा इति, तेभ्य ऊर्ध्वलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्तिर्यग्लोकस्य यत्सर्वोपरितनमेकप्रादेशकं प्रतरं यच्चोर्ध्वलोकस्य सर्वाधस्तनमेकप्रादेशिकं प्रतरमेते द्वे अपि प्रतरे ऊर्ध्वलोकतिर्यग्लोक उच्यते ते चानन्ताः सङ्खयेयप्रादेशिकाः अनन्ता असङ्ख्ययप्रादेशिका; अनन्ता अनन्तप्रादेशिकाः स्कन्धाः स्पृशन्तीति द्रव्यार्थतयाऽनन्तगुणाः, तेभ्योऽ धोलोकतिर्यग्लोके प्रागुक्तप्रकारेण प्रतरद्वयरूपे विशेषाधिकाः, क्षेत्रस्याऽऽयामविष्कम्भाभ्यां मनाग् विशेषाधिकत्वात्, तेभ्यस्तिर्यग्लोकेऽसयगुणाः, क्षेत्रस्यासमयेयगुणत्वात्, तेभ्यऊर्ध्व अधलोकेऽसङ्घयेयगुणाः, यतस्तिर्यग्लोकक्षेत्रादूर्ध्वलोकक्षेत्रसममयेयगुणमिति, तेभ्योऽधोलोके विशेषाधिकाः, ऊर्ध्वलोकादधोलोकस्य विशेषाधिकत्वात्, देशोनसप्तरज्जुप्रमाणो ह्यूर्ध्वलोकः समधिकसप्तरज्जुप्रमाणस्त्वधोलोकः ॥
सम्प्रति दिगनुपातेनाल्पबहुत्वमाह - 'दिगनुपातेन' दिगनुसारेण चिन्त्यमानाः पुद्गलाः सर्वस्तोकाः ऊर्ध्वदिशि, इह रत्नप्रभासमभूतलमेरुध्यऽष्यप्रादेशिको रुचकस्तस्माद्विनिर्गता चतुः प्रदेशा ऊर्ध्वदिग् यावल्लोकान्तस्ततस्तत्र सर्वसोत्काः पुद्गलाः, तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुष्प्रदेशा यावल्लोकान्तस्तस्तस्या विशेषाधिकत्वात् तत्र पुद्गला विशेषाधिकाः तेभ्य उत्तरपूर्वस्यां दक्षिणपश्चिमायां च प्रत्येकमसङ्घयेयगुणाः स्वस्थाने तु परस्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकाद्विनिर्गते मुक्तावलिसंस्थिते तिर्यग्लोकान्तमधोलोकान्तमूर्ध्वलोकान्तं पर्यवसिते, येन क्षेत्रस्यासङ्घयेयगुणत्वात्तत्र पुद्गला असङ्घयेयगुणाः, क्षेत्रं तु स्वस्थाने सममिति पुद्गला अपि स्वस्थाने तुल्याः, ।
- तेभ्योऽपि दक्षिणपूर्वस्यामुत्तरपश्चिमाया च प्रत्येकं विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः, कथं विशेषाधिका इति चेत् ?, उच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कूटानि विद्युठाभमाल्पवतोर्नव नव, तेषु च कूटेषु धूमिका अवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः संभवन्ति ततो विशेषाधिकाः, स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात् तुल्याः, तेभ्यः पूर्वस्यां दिशि असङ्घयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात्, तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलानामवस्थानभावात्, दक्षिणेन विशेषाधिकाः, बहुभुवनशुषिरभावात्, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यामायामविष्कम्भाभ्यां सङ्खयेययोजनकोटीकोटीप्रमाणं मानसं सरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्ते अतिबहव इति तेषां ये तैजसकार्मणपुद्गलास्तेऽधिकाः प्राप्यन्ते इति पूर्वोक्तेभ्यो विशेषाधिकाः ॥
तदेवं पुद्गलविषयमल्पबहुत्वमुक्तम्, इदानीं सामान्यतो द्रव्यविषयं क्षेत्रानुपातेनाहक्षेत्रानुपातेन चिन्त्यमानानि द्रव्याणि सर्वस्तोकानि त्रैलोक्ये - त्रैलोक्यसंस्पर्शानि, यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org