SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२५/२९४ इन्द्रियोपयुक्तानामप्यसातवेदकत्वात्, तेभ्यो।डसमवहता विशेषाधिकाः, सातवेदकानामप्यसमवहतत्वभावात्, तेभ्यो जागरा विशेषाधिकाः, समवहतानामपि केषांचिज्जागरत्वात्, तेभ्यः पर्याप्ताः विशेषाधिकाः, सुप्तानामपि केषाञ्चित्पर्याप्तत्वात्, सुप्ता हि पर्याप्ता अपि भवन्तिजागरास्तुपर्याप्ता एवेति नियमः, तेभ्योऽपिपर्याप्तेभ्यः आयुःकर्मबन्धकाः विशेषाधिकाः, अपर्याप्तानामप्यायुःकर्मबन्धकत्वभावात्, इदमेवाल्पबहुत्वं वियेनजनानुग्रहाय स्थापनाराशिभिरुपदर्श्यते-इह द्वेपङ्कती उपर्यधोभावेनन्यस्तेते, तत्रोपरितन्यापङ्कतावायुःकर्मबन्धकाअपर्याप्ताः सुप्ताः समवहताःसातवेदकाइन्द्रियोपयुक्ताःअनाकारोपयुक्ताःक्रमण स्थाप्यन्ते, तस्याअधस्तन्यां पङ्क्तौ तेषामेवपदानामधस्तात् यथासङ्ख्यमायुरबन्धकाः पर्याप्ता जागराअसमवहताअसातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताः । स्थापना चेयं आयुर्बन्धकाः १ अपर्याप्ताः २ सुप्ताः ४ समवहताः ८सातवेदकाः १६ इन्द्रियोपयुक्ताः ३२ अनाकारोपयुक्ताः ६४ आयुरबन्धकाः २५५ पर्याप्ताः २५४ जागराः २५२ असमवहताः २४८ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः २२४ साकारोपयुक्ताः १९२॥ अत्रोपरितन्यां पङ्कतो सर्वाण्यपि पदानि सङ्घयेयगुणानि, आयुःपदं सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायमेकः स्थाप्यते, ततः शेषपदानि किल जघन्येन सङ्ख्येयन सङ्खयेयगुणानीति द्विगुणद्विगुणाङ्कः तेषु स्थाप्यते, तद्यथा-द्वौ चत्वारः अष्टौ षोडश द्वात्रिंशत् चतुष्षष्टिः, सर्वोऽपि जीवराशिरन्तानन्तस्वरूपोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः परिकल्प्यते, ततोऽस्माद्राशेरायुर्बन्धकादिगताः सङ्ख्याःशोधयित्वायद्यत् शेषमवतिष्ठति तत्तदायुरबन्धकादीनां परिमाणं स्थापयितव्यं, तद्यथा आयुरबन्धकादिपदेद्वेशतेपञ्चपञ्चाशदधिके, शेषेषुयथोक्तक्रमं द्वेशतेचतुः पञ्चाशदधिके द्वेशते द्विपञ्चाशदधिके द्वेशते अष्टाचत्वारिंशदधिके द्वेशतेचत्वारिंशदधिके द्वेशते चतुर्विंशत्यधिके द्विनवत्यधिकंशतं, एवंचसत्युपरितनपङ्कितगतान्यनाकारोपयुक्तपर्यन्तानि पदानि सङ्खयेयगुणानि द्विगुणद्विगुणा धिकत्वात्, ततः परं साकारोपयुक्तपदमपि सङ्खयेयगुणं त्रिगुणत्वात्, शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि, द्विगुणत्वस्यापि क्वचिदभावात् ।। तदेवं गतं बन्धद्वारम्, इदानीं पुद्गलद्वारमाह -पदं-३-दारं-२६:- "पुद्गल" मू. (२९५) खित्ताणुवाएणं सव्वत्थोवा पुग्गला तेलोक्के उड्डलोयतिरियलोए अणंतगुणा अहोलोयतिरियलोए विसेसाहिया तिरियलोएअसंखिजगुणा उड्डलोए असंखिज्जगुणा अहोलोए विसेसाहिया॥दिसाणुवाएणंसव्वत्थोवा पुग्गला उड्ढदिसाएअहोलोएविसेसाहियाउत्तरपुरच्छिमेणं दाहिणपञ्चत्थिमेण य दोवि तुल्ला असंखिजगुणा दाहिणपुरच्छिमेण उत्तरपञ्चस्थिमेण य दोवि विसेसाहिया पुरच्छिमेणं असंखिजगुणा पञ्चत्थिमेणं विसेसाहिया दाहिणेणं विसेसाहिया उत्तरेणं विसेसाहिया। खित्ताणुवाएणं सव्वत्थोवाइं दव्वाइं तेलोके उड्डलोयतिरियलोए अनंतगुणाई अहोलोयतिरियलोए विसेसाहियाइंउड्डलोए असंखिजगुणाईअहोलोए अनंकतगुणाइंतिरियलोए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy