________________
१६५
पदं-३, उद्देशकः-, द्वारं-२५
तथा सर्वस्तोकाः सुप्ताः,जागराः सङ्खयेयगुणाः, एतदपिसूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं, यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ताजागराअपि, [उक्तंचमूलटीकाया-“जम्हाअपज्जत्ता सुत्ता लब्मंति, केइ अपज्जत्तगा जेसिं संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पजत्ता ते संखिज्जगुणा" इति] जागराः पर्याप्तस्तेन सङ्खयेयगुणा इति।
तथा समवहताःसर्वस्तोकाः, यत इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न सर्वेषामिति सर्वस्तोकाः, तेभ्योऽसमवहता असङ्खयेयगुणाः, जीवनकालस्यातिबहुत्वात् ।
तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीराअल्पेच प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः स्वल्पाः सातवेदिनःप्रत्येकशरीरिणस्तुभूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः सङ्खयेयगुणाः।
तथा सर्वस्तोका इन्द्रियोपयुक्ताःतेभ्यो नोइन्द्रियोपयुक्ताः सङ्खयेयगुणाः,इन्द्रियोपयोगो हि प्रत्युत्पन्नाकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तुतमेवार्थमिन्द्रियेण दृष्ट्वाविचारयत्योघसंज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यतेततो नोइन्द्रियोपयोगस्यातीतानागतकालविषयतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः
तथा सर्वस्तोकाअनाकारोपयुक्ताः,अनाकारोपयोगकालस्यस्तोकत्वात्, साकारोपयुक्ताः सङ्ख्येयगुणाः,अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्खयेयगुणत्वात् ॥
इदानीं समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते
सर्वस्तोकाजीवाआयुःकर्मणोबन्धकाः,आयुर्बन्धकालस्य प्रतिनियतत्वात्,तेभ्योऽपर्याप्ताः सङ्खयेयगुणाः, यस्मादपर्याप्ताअनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्बध्नान्तिततो द्वौ त्रिभागावबन्धकालएको बन्धकाल इतिबन्धकालादबन्धकालःसङ्घयेयगुणः तेन सङ्घयेयगुणा एवापर्याप्ता आयुर्बन्धकेभ्यः, तेभ्योऽपर्याप्तेभ्य सुप्ताः सङ्खयेयगुणाः, यस्मादपर्याप्तेषु पर्याप्तेषु च सुप्तालभ्यन्ते, पर्याप्ताश्चापयप्तेिभ्यः सङ्ख्येयगुणा इत्यपर्याप्तेभ्यः सुप्ताः सङ्ख्येयगुणाः,तेभ्यः समवहताःसङ्खयेयगुणाः, बहूनां पर्याप्तेष्वपर्याप्तेषुमारणान्तिकसमुद्घातेन समवहतानांसदा लभ्यमानत्वात्, तेभ्यः सङ्खयेयगुणाः, आयुर्बन्धकापर्याप्तसुप्तेष्वपि सातवेदकानां लभ्यमानत्वात्,
-तेभ्य इन्द्रियोपयुक्ताः सद्धेययगुणाः असातवेदकानामपिइन्द्रियोपयोगस्य लभ्यमानत्वात्, तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्केययगुणाः,इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुचानाकारोपयोगस्य लभ्यमानत्वात्, तेभ्यःसाकारोपयुक्ताः सङ्खयेयगुणाः, इन्द्रियोपयोगेषुनोइन्द्रियोपयोगेषुच साकारोपयोगकालस्य बहुत्वात्, तेभ्यो नोइन्द्रियोपयोगोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात्, अत्र विनेयजनानुग्रहार्थमसद्मभावस्थापना निदर्शनमुच्यते-इह सामान्यतः किल साकारोपयुक्ता द्विनवत्यधिकं शतं ते च किल द्विधा-इन्द्रियसाकारोपयुक्ता नोइन्द्रियासाकारोपयुक्ताश्च, तत्रेन्द्रियसाकारोपयुक्ताः किलातीव स्तोका इति विंशतिसङ्ख्याः कल्प्यन्ते, शेषं द्विसप्तत्युत्तरशतं नोन्द्रियसाकारोपयुक्ताः, नोइन्द्रियानाकारोपयुक्ताश्च द्विपञ्चाशत्कल्पाः, ततः सामान्यतः साकारोपयुक्तेभ्यः इन्द्रियासाकारोपयुक्तेषुविंशतिकल्पेष्वपनीतेषु द्विपञ्चाशत्कल्पेषु अनाकारोपयुक्तेषु तेषु मध्ये प्रक्षिप्तेषु द्वे शते चतुर्विंशत्यधिके भवतः, ततः साकारोपयुक्तेभ्यो नोइन्द्रियोपयुक्ता विशेषाधिकाः, तेभ्योऽसातवेदका विशेषाधिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org