SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-२४ १५९ स्वस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्, तेभ्यस्तिर्यग्लोकेऽसङ्खयेयगुणाः, समवसरणादौ वन्दननिमित्तंद्वीपेषुचरमणीयेषुक्रीडानिमित्तमागमनसंभवात् आगतानांचचिरकालमप्यवस्थानात्, तेभ्योऽधोलोकेऽसङ्खयेयगुणाः, भवनवासिनामधोलोकस्य स्वस्थानत्वात्। एवं भवनवासिदेवीगतमप्यल्पबहुत्वंभावनीयं सम्प्रतिव्यन्तरगतमल्पबहुत्वमाह क्षेत्रानुपातेन चिन्त्यमाना व्यन्तराः सर्वस्तोका ऊर्द्धलोके, कतिपयानामेव पण्डकवनादौ तेषांभावात्, तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरतरूपेऽसङ्खयेयगुणाः, केषांचित् स्वस्थानान्तर्ततितयाअपरेषांस्वस्थानप्रत्यासन्नतयाअन्येषां बहूनांमन्दरादिषुगमनागमनभावतोयथोक्तप्रतरद्वयसंस्पर्शात्, तेषां समुदायेन चिन्त्यमानामातिबहुत्वभावात्, तेभ्यस्त्रैलोक्ये सङ्खयेयगुणाः, यतो लोकत्रयवर्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योऽतिबहव इति सङ्ग्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्ख्येयगुणाः, तद्धिबहूनां व्यन्तराणां स्वस्थानं ततस्तत्संस्पर्शिनो बहव इत्यसङ्खयेयगुणाः, अधोलोके सङ्खयेयगुणाः, अदोलौकिकग्रामेषु तेषां स्वस्थानभावात् बहूनामधोलोके क्रीडार्थं गमनभावात्, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणाः, तिर्यग्लोकस्यतेषां स्वस्थानत्वात्।एवं व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं ।सम्प्रतिज्योतिष्कविषयमल्पबहुत्वमाह क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्वस्तोका ऊर्ध्वलोके, केषाश्चिदेव मन्दरे तीर्थकरजन्म- महोत्सवनिमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तं च परेषां केषाञ्चिन्मन्दरादिषु क्रीडानिमित्तं गमनसंभवात्, तेभ्य ऊर्ध्वलोकतिर्यग्लोके प्रतरद्वयरूपे असङ्खयेयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिताअपिस्पृशन्ति, प्रत्यासन्नत्वात्, अपरेवैक्रियसमुद्घातसमवहताः, अन्येऊर्ध्वलोक-गमनागमनभावतः, ततोऽधिकृतप्रतरद्वयस्पर्शिनः पूर्वोक्तेभ्योऽसङ्खयेयगुणाः, तेभ्यमलोक्ये- त्रैलोक्यसंस्पर्शिनः सङ्खयेयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयत्नवैक्रियसमुद्घातेनसमवहतास्त्रीनपि लोकान्स्वप्रदेशैः स्पृशन्तितेस्वभावतोऽप्यतिबहवइतिपूर्वोक्तेभ्य; सङ्खयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके पर द्वये वर्तमाना असङ्ख्येयगुणाः, यतो बहवोऽधोलौकिक-ग्रामेषु समवसरणादिनिमित्तमधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवश्चाधोलोकात् ज्योति- ष्केषु समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ततो घटन्ते पूर्वोक्तेभ्योऽसङ्खयेयगुणाः, तेभ्यः सङ्खयेयगुणाअधोलोके, बहूनामधोलोके क्रीडानिमित्तधोलौकिकग्रामेषु समवसरणादिषु चिरका-लावस्थानात्, तेभ्योऽसङ्खयेयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां स्वस्थानत्वात् । एवं ज्योतिष्क- देवीसूत्रमपि भावनीयं । सम्प्रति वैमानिकदेवविषयमल्पबहुत्वमाह क्षेत्रानुपातेन' क्षेत्रानुसारेण चिन्त्यमाना वैमानिका देवाः सर्वस्तोकाः ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये, यतो येऽधोलोके तिर्यग्लोके वा वर्तमानाजीवा वैमानिकेषूप-द्यन्तेयेचतिर्यग्लोके वैमानिका गमनागमनं कुर्वन्तियेच विवक्षितप्रतरद्वयाध्यासितं क्रीडास्थानं संश्रिता ये च तिर्यग्लोकस्थिता एव वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविधप्रय- लविशेषादूर्द्धमात्मप्रदेशान् निसृदन्ति ते विवक्षितं प्रतरद्वयं स्पृशन्ति ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy