________________
१५८
प्रज्ञापनाउपाङ्गसूत्रं-१- ३/-/२४/२८७
तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए संखेज्जगुणा खेत्ताणुवाएणं सव्वत्थोवाओ वाणमंतरीओ देवीओ उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेज्जगुणाओ । खेत्ताणुवाएणं सव्वत्थोवा जोइसिया देवा उडलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा अहोलोए संखेज्जगुणा तिरियलोए असंखेजगुणा। खेत्ताणुवाएणं सव्वत्थोवाओ जोइसिणीओ देवीओ उडलोए उष्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए असंखेज्जगुणाओ ।।
खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उड्डलोयतिरियलोए तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए संखि० अहोलोए संखि० तिरियलोए संखे० उडलोए असंखि० खित्ताणुवाएणं सव्वत्थोवाओ वेमाणिणीओ देवीओ उडलोयतिरियलोए तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए संखेज्जगुणाओ अहोलोए संख० तिरियलोए संखेज्जगुणाओ उड्डलोए असंखेज्जगुणाओ
वृ. क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्ध्वलोके, तथाहि - केषाञ्चिसौधर्म्मादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाञ्चिन्मन्दरे तीर्थकरजन्ममहिमा - निमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि स्वल्पा इति सर्वस्तोका ऊर्ध्वलोके, तेभ्य ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये असङ्घयेयगुणाः, तथमिति चेत्?, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्ध्वलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्ध्वलोके सौधर्म्मादिषु देवलोकेषु बादर - पर्याप्तपृथिवीकायिकतया बादरपर्याप्ताप्कायिकतया बादरपर्याप्तप्रत्येकवनस्पतिकायिकतया च शुरेषु मणिविधानादिषु स्थानेषूत्पत्तुकामा अद्यापि स्वभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवीकायिकाद्यत्युः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताःकेचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति तथा चोक्तं प्रज्ञप्ती - "जीवे णं भंते ! मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए मंदरस्स पव्वयस्स पुरच्छिमे णं बायरपुढविकाइयत्ताए उववजित्तए से णं भंते! किं तत्थगए उववज्जेज्जा उयाहु पडिनियत्तित्ता उववज्जइ ?, गोयमा ! अत्थेगइए तत्थगए चेव उववज्जइ अत्थेगइए ततो पडिनियत्तित्ता दोघंपि मारणंतियसमुग्धाएणं समोहणति, समोहणित्ता तओ पच्छा उववज्जइ' इति, स्वभवायुः प्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनत्सत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्योऽ
सङ्घयेयगुणाः,
- तेभ्यस्त्रैलोक्ये - त्रैलोक्यसंस्पर्शिनः सङ्घयेयगुणाः यतो ये ऊर्ध्वलोक तिर्यक्पञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविघतीव्रप्रयत्नविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सङ्घयेयगुणाः, परस्थानसमवहतेभ्यः स्वस्थानसमवहतानां सङ्घयेयगुणत्वात्, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यलोकसंज्ञे प्रतरद्वयेऽसङ्घयेयगुणाः, स्वस्थानप्रत्यातन्नतया तिर्यग्लोके गमनागमनभावतचः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org