SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पदं - ३, उद्देशकः -, द्वारं - २४ तिर्यग्लोकगतमनुष्यस्त्रीणामूर्ध्वलोके समुत्पित्सूनां मारणान्तिकसमुद्घातवशात् दूरतरमूर्द्धविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वन्तीनां यथक्तप्रतरद्वयसंस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात्, ताभ्योऽधोलोकतिर्यग्लोके - प्रागुक्तस्वरूपे प्रतरद्वयरूपे सङ्घत्येयगुणाः, तिर्यग्लोकाद् मनुष्यस्त्रीभ्यः शेषेभ्यो वाऽधोलौकिकग्रामेषु यदिवाऽधोलौकिकग्रामरूपात् शेषाद्वा तिर्यग्लोके मनुष्यस्त्रीतेवेनोत्पित्सूनां कासाञ्चिदधोलौकिकग्रामेष्ववस्थानतोऽ यथोक्तप्रतरद्वयसंस्पर्शसंभवात् तासांच प्रागुक्ताभ्योऽतिबहुत्वात्, ताभ्योऽपि ऊर्ध्वलोके सङ्घयेयगुणाः, क्रीडार्थं चैत्यवन्दनिमित्तं वा सौमनसादिषु प्रभूततराणां विद्याधरीणां (गमन) - संभवात्, ताभ्योऽप्यधोलोके सङ्घयेयगुणाः, स्वस्थानत्वेन तत्रापि बहुतराणां भावात्, ताभ्यस्तिर्यग्लोके सङ्केययगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात् स्वस्थानत्वाच्च । गतं मनुष्यगतिमधिकृत्याल्पबहुत्वम्, इदानीं देवगतिमधिकृत्याह क्षेत्रानुपातेन चिन्त्यसमाना देवाः सर्वस्तोकाः ऊर्ध्वलोके, वैमानिकानामेव तत्र भावात् तेषां चाल्पत्वात्, येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहोत्सवादौ मन्दरादिषु गच्छन्ति तेऽपि स्वल्पा एवेति सर्वस्तोकाः, तेभ्य ऊर्ध्वलोकतिर्यग्लोके - ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वयेऽसमयेयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति स्वस्थानं, तथा भवनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः स्वस्थाने गमागमेन तथा ये सौधम्र्मादिषु देवत्वेनोत्पित्सवो देवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामास्त्येन यथोक्तप्रतरद्वयसंस्पर्शिनः परिभाव्यमाना अतिबहव इति पूर्वोक्तेभ्योऽसङ्घयेयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सङ्घयेयगुणाः, यतो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्घयेयगुणाः केवलवेदसोपलभ्यन्ते इति सङ्घयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः सङ्ख्येयगुणाः, तद्धि प्रतरद्विकं भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया स्वस्थानं तथा बहवो भवनपतयः स्ववनस्थाः तिर्यग्लोकगमागमेन तथोद्वर्त्तमानाः तथा वैक्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनस्तिर्यक्पञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहव इति सङ्घयेयगुणाः, तेभ्योऽधोलोके सङ्घयेयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोते सङ्घत्येयगुणाः, ज्योतिष्कव्यन्तराणां स्वस्थानत्वात्। अधुना देवीरधिकृत्याल्पबहुत्वमाह - 'खेत्ताणुवाएणं' इत्यादि, सर्वं देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुक्तं देवविषयमौधिकमल्पबहुत्वम्, इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह मू. (२८८) खेत्ताणुवाएणं सव्वत्थोवा भवणवासी देवा उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोक्के संखेज्जगुणा अहोलोयतिरियलोए असंखेज्जगुणा तिरियलोए असंखेज्जगुणा अहोलोए असंखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवाओ भवणवासिणीओ देवीओ उड्ढलोए उड्डलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेज्जगुणाओ अहोलोयतिरियलोए असंखेज्जगुणाओ तिरियलोए असंखेज्जगुणाओ अहोलोए असंखेज्जगुणाओ ।। खेत्ताणुवाएणं सव्वत्थोवा वाणमंतरा देवा उड्डलोए उड्डलोयतिरियलोए असंखेज्जगुणा For Private & Personal Use Only www.jainelibrary.org Jain Education International १५७
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy