SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५६ प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२४/२८७ तिर्यग्लोकवर्तिनश्चजीवास्तिर्यग्योनिकस्त्रीत्वेनाधोलौकिकग्रामेष्वपिचतेचतथोत्पद्यमाना यथोक्तं प्रतरद्वयंस्पृशन्ति तिर्यग्योनिकस्त्र्यायुःप्रतिसंवेदनाच्च तिर्यग्योनिकास्त्रियोऽपि, तथाऽधोलौकिकग्रामायोजनसहस्रावगाहाः पर्यन्तेऽर्वाक्क्वचितप्रदेशे नवयोजनशतावगाहाअपितत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवसअथानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते ततो भवन्ति पूर्वोक्ताभ्यः सङ्ख्येयगुणाः, ताभ्योऽधोलोके सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामाः सर्वेऽपिच समुद्रायोजनसहस्रावगाहाः ततो नवयोजनशतानामधस्तात्यावर्त्तन्ते मत्सीप्रभृतिकास्तिर्यग्योनिकस्त्रियस्ताः स्वस्थानत्वात्प्रभूता इति सङ्ख्येयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात्, ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः उक्तं तिर्यग्गतिमप्यधिकृत्याल्पबहुत्वम्, इदानीं मनुष्यगतिविषयमाह क्षेत्रानुपातेन मनुष्याश्चिन्त्यमानास्त्रैलोक्ये त्रैलोक्यसंस्पर्शिनः सर्वस्तोकाः, यतो ये ऊर्ध्वलोकादधोलौकिकग्रामेषु समुत्पित्सवोमारणान्तिकसमुद्घातेनसमवहता भवन्तिते केचित् समुद्घातवशावहिर्निर्गतैः स्वात्मप्रदेशैस्त्रीनपि लोकान्स्पृशन्ति येऽपिचान्ये वैक्रियसमुद्घातमाहारकसमुद्घातं वा गताः प्राप्ताः तथाविधप्रयत्लविशेषात् दूरतरमूर्द्धषोविक्षिप्तात्मप्रदेशाः ये च केवलिसमुद्घातगतास्तेऽपि त्रीन्पि लोकान् स्पृशन्ति स्तोकाश्चेति सर्वस्तोकाः, तेभ्यऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञकप्रतरद्वयसंस्पर्शिनोऽसङ्खयेयगुणाः, यत इह वैमानिकदेवाः शेषकायाश्च यथासंभवमूर्ध्वलोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयसंस्पर्शिनो भवन्ति विद्याधराणामपि च मन्दरादिषु गमनं तेषांच शुक्ररुधिरादिपुद्ग- लेषु संमूर्छिमनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूर्छिममनुष्या अपि यथोक्तप्रतरद्वयसंस्पर्शवन्त उपजायन्ते ते चातिबहव इत्यासङ्खयेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामेषुस्वभावतएवबहवोमनुष्याः, ततोयेतिर्यग्लोकात्मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिकग्रामेषु ग्रभव्युत्क्रान्तिकमनुष्यत्वेन संमूर्छिममनुष्यत्वेन वा समुत्पित्सवो ये चाधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्योवातिर्यग्लोके गर्भव्युत्क्रान्तिकमनुष्यत्वेनवासमूच्छिममनुष्यत्वेन वा समुत्पत्तुकामास्तेयथोक्तंकिलप्रतरद्वयंस्पृशन्ति बहुतराश्च ते तथा स्वस्थानतोऽपि केचिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयसंस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्घयेयगुणाः, तेभ्यः ऊर्ध्वलोकेसङ्ख्येयगुणाः, सौमनसादिक्रीडार्थंचैत्यवन्दनिमित्तंवा प्रभूततराणां विद्याधरचारणमुनीनांभावात् तेषांच यथायोगंरुधिरादिपुद्गलयोगतः संमूर्छिमम-नुष्यसंभवात्, तेभ्योऽधोलोके सङ्ख्येयगुणाः, स्वस्थानत्वेन बहुत्वभावात्, तेभ्यस्तिर्यग्लोके सङ्घयेय- गुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् स्वस्थानत्वाच्च । सम्प्रति क्षेत्रानुपातेन मानुषीविषयमल्पबहुत्वमाह क्षेत्रानुपातेन मानुष्यश्चिन्त्यमानाः सर्वस्तोकाःत्रैलोक्यस्पर्शिन्यः, ऊर्ध्वलोकादधोलोके समुत्पित्सूना मारणान्तिकसमुद्घातवशविनिर्गतदूरतरात्मप्रदेशानामथवावैक्रियसमुद्घातगतानां केवलिसमुद्घातगतानां वा त्रैलोक्यसंस्पर्शनात् तासां चातिस्तोकत्वमिति सर्वस्तोकाः, ___ ताभ्य ऊर्ध्वलोकतिर्यग्लोके-ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः वैमानिकदेवानां शेषकायाणां चोर्ध्वलोकात् तिर्यग्लोके मनुष्यस्त्रीत्वेनोत्पद्यमानानां तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy