________________
पदं - ३, उद्देशक:-, द्वारं - २४
१५५
वृ. 'क्षेत्रानुपातेन' क्षेत्रानुसारेण नैरयिकाश्चिन्त्यमानाः सर्वस्तोकास्त्रैलोक्ये - लोकत्र - यसंस्पर्शिनः, कथं लोकत्रयसंस्परिश्नो नैयिकाः कथं वा ते सर्वस्तोकाः इति चेत् ?, उच्यते, इह ये मेरुशिखरे अञ्जनदधिमुखपर्वतशिखरादिषु वा वापीषु वर्त्तमाना मत्स्यादयो नरकेषूत्पित्सव ईलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति नारकव्यपदेशं च लभन्ते तत्कालमेव नरकेषूत्त्पत्तेर्नाकायुष्कप्रतिसंवेदनात्, ते चेत्थंभूताः कतिपये इति सर्वस्तोकाः,
अन्ये तु व्याचक्षते - नारका एव यथोक्तवापीषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमानाः समुद्घातवशतो विक्षिप्तनिजात्मप्रदेशदण्डाः परिगृह्यन्ते, ते हि किल तदा नारका एव निर्विवादं, तदायुष्कप्रतिसंवेदनात् त्रैलोक्यसंस्पर्शिनश्च यथोक्तवापीर्यावदात्मप्रदेशदण्डस्व विक्षिप्तत्वादिति, तेभ्यो ऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसञ्जञप्रागुक्तप्रतरद्वयस्य संस्पर्शिनोऽसङ्घयेयगुणाः, यतो बहवोऽसङ्घयेयेषु द्वीपसमुद्रेषु पञ्चेन्द्रियतिर्यग्योनिका नरकेषूत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति ततो भवन्ति पूर्वोक्तेभ्योऽसङ्ख्येयगुणाः, क्षेत्रस्यासङ्ख्यातगुणत्वात्, मन्दरादिक्षेत्रादसङ्घयेयद्वीपसमुद्रात्मकं क्षेत्रमसङ्ख्येयगुणमित्यतो भवन्त्यसङ्घयेयगुणाः,
अन्ये त्वभिदधति-नारका एवासङ्घयेयेषु द्वीपसमुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेशदण्डा द्रष्टव्याः, ते हि नार कायुः प्रतिसंवेदनान्नारका उद्वर्त्तमाना अपि असङ्घयेया; प्राप्यन्ते इति प्रागुक्तेभ्योऽसङ्घयेयगुणाः, तेभ्योऽधोलोकेऽसङ्घयेयगुणाः, तस्य तेषां स्वस्थानत्वात् । उक्तं नारकगतिमधिकृत्य क्षेत्रानुपातेनाल्पबहुत्वम्, इदानीं तिर्यग्गतिमधिकृत्याह
इदं सर्वमपि सामान्यतो जीवसूत्रमिव भावनीयं, तदपि तिरश्च एव सूक्ष्मनिगोदानधिकृत्य भावितम्, अधुना तिर्यग्योनिकस्त्रीविषयमल्पबहुत्वमाह- क्षेत्रानुपातेन तिर्यग्योनिकस्त्रियश्चिन्त्य मानाः सर्वस्तोकाः ऊर्ध्वलोके, इह मन्दराद्रिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः, ताभ्य ऊर्ध्वलोकतिर्यग्लोके – ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः असङ्खयेयगुणाः, कथमिति चेत् ?, उच्यते,
यावत्सहस्रादेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रिययोनिषूत्पद्यन्ते किं पुनः शेषकायाः ?, ते हि यथासंभवमुपरिवर्त्तिनोऽपि तत्रोत्पद्यन्ते, ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात्तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुः प्रतिसंवेदयमाना उत्पद्यन्ते यास्तिर्यग्लोकवर्त्तिन्यस्तिर्यक्पञ्चेन्द्रियस्त्रिय ऊर्ध्वलोके देवत्वेन शेषकायत्वेन चोत्पद्यमाना मारणान्तिकसमुद्घाततेनोत्पत्तिदेशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति तिर्यग्योनिकस्त्रैयश्च तास्ततोऽसङ्घयेयगुणाः, क्षेत्रस्यासङ्घयेयगुणत्वात्, ताभ्यस्त्रैलोक्ये सङ्घयेयगुणाः, यस्मादधोलोकात् भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्ध्वलोकेऽपि तिर्यक्पश्ञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते ऊर्ध्वलोकाद् देवादयोऽप्यधोलोके च ते समवहता निजनिजात्मप्रदेशदण्डैस्त्रीनपि लोकान् स्पृशन्ति प्रभूताश्च ते तथा तिर्यग्योनिकस्त्र्यायुःप्रतिसंवदनात् तिर्यग्योनिकस्त्रियश्च ततः सङ्घयेयगुणाः,
ताभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये वर्त्तमानाः सङ्ख्येयगुणाः, बहवो हि नारकादयः समुद्घातमन्तरेणापि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org