SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२४/२८६ विशेषाधिका अवाप्यन्ते ततो विशेषाधिकाः, -तेभ्यस्तिर्यग्लोकवर्तिनोऽसङ्ख्येयगुणाः, उक्तक्षेत्रद्विका त्तिर्यग्लोकक्षेत्रस्यासङ्खयेयगुणत्वात्, तेभ्यस्त्रैलोक्ये-त्रिलोकसंस्पर्शिनोऽसङ्खयेयगुणाः, इह ये केवले ऊर्ध्वलोकेऽधोलोके तिर्यग्लोके वा वर्त्तन्ते ये च विग्रहगत्या ऊर्ध्वलोकतिर्यग्लोकी स्पृशन्ति ते न गण्यन्ते, किं तु ये विग्रहगत्यापन्नास्त्रीपि लोकान्स्पृशन्तिते परिग्राह्याः, सूत्रस्य विशेषविषयत्वात्, तेचतिर्यग्लोकवर्तिभ्योऽसङ्खयेयगुणा एव, कथमिति चेत्, उच्यते, इह बहवः प्रतिसमयमूर्ध्वलोकेऽधोलोके चसूक्ष्मनिगोदा उद्धर्तन्ते, यतुतिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा उद्वर्तन्तेअर्थादधोलोकेव॑लोके वाकेचित्तस्मिन्नेववातिर्यग्लोकेसमुत्पद्यन्तेततोन तेलोकत्रयसंस्पर्शिनइतिनाधिकृतसूत्रविषयाः, तनोव॑लोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्तमानानां मध्ये केचित् स्वस्थाने एवोकॊलोकेऽधोलोके वा समुत्पद्यन्ते केचित्तिर्यग्लोके, तेभ्योऽसङ्खयेयगुणा अधोलोकगता ऊर्ध्वलोके ऊर्ध्वलोकगता अधोलोके समुत्पद्यन्ते, ते च तथोत्पद्यमानास्त्रीनपि लोकान् स्पृशन्तीत्यसङ्खयेयगुणाः, कथं पुनरेतदवसीयते यदुत एवंप्रमाणा बहवोजीवाः सदा विग्रहगत्यापनाः लभ्यन्ते इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि-प्रागुक्तमिदमत्रैव सूत्रं पर्याप्तद्वारे-“सव्वत्थोवा जीवा नोपज्जत्तानोअपज्जत्ता अपज्जत्ता अनंतगुणा पञ्जत्ता संखेनगुणा" इति, त एवं नामापर्याप्ता बहवः येनैतेभ्यः पर्याप्ताः सङ्खयेयगुणा एवनासङ्खयेयगुणा नाप्यनन्तगुणाः,तेचापर्याप्ता बहवोऽनन्तरगती वर्तमाना लभ्यन्ते इति, तेभ्यो ऊर्ध्वलोके-ऊर्ध्वलोकावस्थिता असङ्खयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात्, असङ्खयेयानाय भागानामुद्वर्तनायाश्च संभवात्, तेभ्योऽ धोलोकेअधोलोकवर्तिनो विशे० ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशे० । तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तम्, इदानींचतुर्गतिदण्डकक्रमेण तदभिधित्सुःप्रथमतोनैरयिकाणमाह मू. (२८७) खेत्ताणुवाएणंसव्वत्थोवा नेरइया तेलोक्के अहोलोयतिरियलोए असंखेजगुणा, अहोलोए असंखेजगुणा ।। खेत्ताणुवाएणं सव्वत्थोवा तिरिक्खजोणिया उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेज्जगुणा तेलोक्के असंखेजगुणा उड्डलोए असंखेजगुणा अद्दोलोए विसेसाहिया।खेत्ताणुवाएणंसव्वत्थोवाओतिरिक्खजोणिणीओ उड्डलोए उड्डलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेजगुणाओअहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेजगुणाओ तिरियलोए संखेजगुणाओ॥ खेत्ताणुवाएणं सव्वत्थोवा मणुस्सा तेलोक्के उड्डलोयतिरियलोए असंखेजगुणा अहोलोयतिरियलोए संखेजगुणा उड्डलोए संखेनगुणाअहोलोए संकेजगुणा तिरियलोए संखेनगुणा खेत्ताणुवाएणंसव्वत्थोवा मणुस्सीओतेलोक्केउडलोयतिरियलोएसंखेजगुणाओअहोलोयतिरियलोए संखेजगुणाओ उड्डलोए संखेज्जगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेजगुणाओ॥ खेताणुवाएणंसव्वत्थोवा देवाउडलोए उड्डलोयतिरियलोए असंखेज्जगुणा तेलोकेसंखेज्जगुणा अहोलोयिरियलोए संखेज्जगुणा अहोलोए संखेनगुणा तिरियलोए संखेज्जगुणा । खेत्ताणुवाएणं सव्वत्थोवाओ देवीओ उड्डलोए उडलोयतिरियलोए असंखेज्जगुणाओ तेलोक्के संखेनगुणाओ अहोलोयतिरियलोए संखेजगुणाओ अहोलोए संखेज्जगुणाओ तिरियलोए संखेजगुणाओ। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy