SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५३ पदं-३, उद्देशकः-, द्वारं-२३ आकाशानन्तत्वात्, तेभ्यः सर्वपर्यवाअनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ।। गतं जीवद्वारम्, अधुना क्षेत्रद्वारमाह - पदं-३- दारं- २४:- "क्षेत्रं" मू. (२८६) खेत्ताणुवाएणं सव्वत्थोवा जीवा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखेजगुणा तेलुक्के असंखेनगुणा उड्डलोए असंखेनगुणा अहोलोए विसेसाहिया। __वृ. क्षेत्रस्यानुपातः-अनुसारः क्षेत्रानुपातः तेन चिन्त्यमानाजीवाः सर्वस्तोका ऊर्ध्वलोकतिर्यग्लोके, इह ऊर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्यलोकस्य सर्वोपरितनमाकाशप्रदेशप्रतरमेष ऊर्ध्वलोकतिर्यग्लोकः, तथाप्रवचनप्रसिद्धः, इयमत्र भावना-इह सामास्त्येन चतुदर्शरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-ऊर्ध्वलोकः तिर्यग्लोकोऽधोलोकश्च, रुचकाचैतेषां विभागः, तथाहि-रुचकस्याधस्तानवयोजनशतानिरुचकस्योपरिष्टान्नवयोजनशतानितिर्यग्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादूर्ध्वलोकः, देशोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः समधिकसप्तरज्जुप्रमाणौऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्रयस्तिर्यग्लोकः, तत्र रुचकसमाद्भूतलभागानवयोजनशतानि गत्वा यज्योतिश्चकस्योपरितनं तिर्यग्लोकसम्बन्धिन एकप्रादेशिकामाकाशप्रतरं तत्तिर्यग्लोकप्रतरं तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरं तदूर्ध्वलोकप्रतरंतेद्वेअपूर्द्धलोकतिर्यग्लोक इतिव्यवहियते, तथाअनादिप्रवचनपरिभाषाप्रसिद्धेः, तत्र वर्तमानाः जीवाः सर्वस्तोकाः, कथमिति चेत्, उच्यते, इह ये ऊर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्ध्वलोके (च) समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तयतरद्वयाध्यासिनो वर्तन्ते ते किल विवक्षिते प्रतरद्वये वर्तन्ते, नान्ये, ये पुनरूज़लोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषां सूत्रान्तरविषयत्वात्, ततः स्तोका एवाधिकृतप्रतरद्वयवर्त्तिनोजीवाः, ननूज़लोकगतानामपि सर्वजीवानामसङ्खयेयो भागोऽनवरतं म्रियमाणोऽवाप्यते, तेच तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयसंस्पर्शिनः स्तोकाः?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यद्यपि नामोर्द्धलोकगतानां सर्वजीवानामसङ्खयेयो भागोऽनवरतं म्रियमाणोऽवाप्यतेतथापिनतेसर्वएव तिर्यग्लोकेसमुत्पद्यन्ते, प्रभूततराणामधोलोके ऊर्ध्वलोकेच समुत्पादात्, ततोऽधिकृतप्रतरद्वयवर्त्तिनः सर्वस्तोका एव, तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यदधोलोकस्योपरितनमेकप्रमादेशिकमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरमेतद्दवयमप्यधोलोकतिर्यग्लोक इत्युच्यते, तथाप्रवचनप्रसिद्धः, तत्र ये विग्रहगत्या तत्रस्थतया वा वर्तन्तेते विशेषाधिकाः, कथमिति चेत्, उच्यते, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्तन्ते ते विवक्षितप्रतरद्वयवर्तिनो, ये पुनरघोलोकादूर्ध्वलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न परिगृह्यन्ते, तेषां सूत्रान्तरविषयत्वात्, केवलमूर्ध्वलोकादधोलोके विशषाधिका इत्यधोलोकात्तिर्यग्लोके समुत्पद्यमानाऊलोकापेक्षया For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy