SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ प्रज्ञापनाउपाङ्गसूत्रं-१-३/-/२१/२८३ तदवयवाश्च प्रदेशाः तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति, तदयुक्तं, दृष्टान्तदाान्तिकवैषम्यात्, परमाणूनां समुदायः तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते, परस्परनिरपेक्षणांकेवलपरमैणूनामिव स्कन्धत्वायोगात्, अद्धासमयास्तुपरस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वापरसमययोरभावात्, ततो न स्कन्धत्वपरिणामः, तद्मावाच्च नाद्धासमयाः प्रदेशाः, किंतु पृथग् द्रव्याण्येवेति ।। सम्प्रत्यमीषां धर्मास्तिकायादीनां सर्वेषां युगपत् द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय एते त्रयोऽपि द्रव्यार्थतया तुल्याः सर्वस्तोकाश्च, प्रत्येकमेकसङ्ख्याकत्वात्, तेभ्यो धर्मास्तिकायोऽधर्मास्तिकाय एतौद्वावपि प्रदेशार्थतयाऽसङ्घयेयगुणी, स्वस्थाने तु परस्परं तुल्यौ, ताभ्यां जीवास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, अनन्तानां जीवद्रव्याणां भावात्, स एव जीवास्तिकायः प्रदेशार्थतयाऽसङ्खयेगुणः, प्रतिजीवमसङ्घयेयानांप्रदेशानांभावात्, तस्मादपि प्रदेशार्थतयाजीवास्तिकायात्पुद्गलास्तिकायोद्रव्यार्थतयाऽनन्तगुणः, प्रतिजीवप्रदेशं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धानामप्यनन्तानां भावात्, स एव पुद्गलास्तिकायः प्रदेशार्थतयाऽसङ्ख्येयगुणः, अत्र भावना प्रागिव, तस्मादपि प्रदेशार्थतया पुद्गलास्तिकायात् अद्धासमयो द्रव्यार्थप्रदेशार्थतयाऽनन्तगुणः, अत्रापि भावना प्रागिव, तस्मादप्याकाशास्तिकायः प्रदेशार्थतया अनन्तगुणः, सर्वास्वपि दिक्षु तस्यान्ताभावात्, अद्धासमयस्य च मनुष्यक्षेत्रमात्रभावात् ॥ गतमस्तिकायद्वारम्, इदानीं चरमद्वारमाह -पदं--३-दारं-२२:- "चरम" मू. (२८४) एएसिणं भंते ! जीवाणं चरिमाणं अचरिमाण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा अचरिमा चरिमा अनंतगुणा। वृ.इह येषा चरमो भवः संभवी योग्यतयाऽपितेचरमा उच्यन्ते, ते चार्थात् भव्याः, इतरे अचरमा-अभव्याः सिद्धाश्च, उभयेषामपिचरमभवाभावात्, तत्र स्तोका अचरमाः, अभव्यानां सिद्धाना च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात्, तेभ्योऽनन्तगुणाश्चरमाः, अजधन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् ॥गतं चरमद्वारम्, अधुना जीवद्वारमाह __ -:पदं-३-दारं-२३:- "जीवः" मू. (२८५) एएसिणंभंते! जीवाणं पोग्गलाणं अद्धासमयाणंसव्वदव्वाणं सव्वपएसाणं सव्वपज्जवाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा पोग्गला अनंतगुणा अद्धासमया अनंतगुणा सव्वदव्वा विसेसाहिया सव्वपएसा अनंतगुणा सव्वपजवा अनंतगुणा । दारं। वृ. सर्वस्तोका जीवाः, तेभ्यः पुद्गला अनन्तगुणाः, तेभ्योऽद्धासमया अनन्तगुणाः, अत्र भावना प्रागेव कृता, तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, कथमिति चेत्, उच्यते,इहयेऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तगुणा उक्तास्तेप्रत्येकंद्रव्याणिततोद्रव्यचिन्तायां तेऽपिपरिगृह्यन्तेतेषुचमध्येसर्वजीवद्रव्याणिसर्वपुद्गलद्रव्याणिधर्माधर्माकाशास्तिकायद्रव्याणि चप्रक्षिप्यन्तेतानिचसमुदितान्यप्यद्धासमयानामनन्तभागकल्पानीतितेषुप्रक्षिप्तेष्वपिमनागधिकत्वं जातं इत्यद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि, तेभ्यः सर्वप्रदेशा अनन्तगुणाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy