SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पदं - ३, उद्देशक:-, द्वारं - २१ 119 11 १५१ "संयोगपुरस्कारश्च नाम भाविनि हि युज्यते काले । न हि संयोगपुरस्कारो ह्यसतां केषांचिदुपपन्नः ॥” इति, यथा च सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां प्रत्येकं द्रव्य क्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिकायदनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम्, इदानीमेतेषामेव प्रदेशार्थतया तदाह धर्म्मास्तिकायोऽधर्म्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यौ, उभयोरपि लोकाकाशप्रदेशपरिमाणप्रदेशत्वात्, शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोकौ, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् तस्मादपि पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः, एकैकस्य जीवप्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् किं पुनः सकलपुद्गलास्तिकायप्रदेशाः ?, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतयाऽनन्तगुणः, एकैकस्य पुद्गलास्तिकायप्रदेशस्य प्रागुक्तक्रमेण तत्तद्रव्यक्षेत्रकालभावविशेषसम्बन्धबा वतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात्, तस्मादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगुणाः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम्, इदानीं प्रत्येकं द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाह सर्वस्तोको धम्र्मास्तिकायो द्रव्यार्थतया, एकत्वात्, प्रदेशार्थतयाऽसङ्घयेयगुणः, लोकाकाशप्रदेशपरिमाणप्रदेशात्मकत्वात् एवमधम्र्म्मास्तिकायसूत्रमपि भावनीयम्, आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात्, प्रदेशार्थतयाऽनन्तगुणः, अपरिमितत्वात्, जीवास्तिकायो द्रव्यार्थतया सर्वस्तोकाः, प्रदेशार्थतयाऽसङ्घयेयगुणः, प्रतिजीवं लोकाकाशप्रदेशपरिमाणप्रदेशभावात्, तथा सर्वस्तोकः पुद्गलास्तिकायो द्रव्यार्थतया, द्रव्याणां सर्वत्रापि स्तोकत्वात्, स एव पुद्गलास्तिकायस्तत्तद्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्घयेयगुणः, ननु बहवः खलु जगत्यनन्तप्रदेशका अपि स्कन्धा विद्यन्ते ततोऽनन्तगुणाः कस्मान्न संभवन्ति ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इह हि खल्पा अनन्तप्रदेशकाः स्कन्धाः परमाण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम् - “सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए, परमाणुपोग्गला दव्वट्टयाए अनंतगुणा, संखेज्जपएसिया खंधा दव्वट्टयाए संखेज्जगुणा, असंखेज्जपएसिया खंधा दव्वट्टयाए असंखेज्जगुणा" इति, ततो यदा सर्व एव पुद्दलास्तिकायः प्रदेशार्थतया चिन्त्यते तदाऽनन्दप्रदेशकानां स्कन्धानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात् तेषा च पृथक् पृथक् द्रव्यत्वात् असङ्ख्येयप्रदेशकानां च स्कन्धानां परमाण्वपेक्षयाऽसङ्घयेयगुणत्वादसङ्घयेयगुण एवोपपद्यते नानन्तगुण इत्यर्थः, 'अद्धासमए न पुच्छिज्जइ' इति, अद्धासमयो द्रव्यार्थप्रदेशार्थतया न पृच्छयते, कुतः ? इत्याह-प्रदेशाभावात्, आह-कोऽयमद्धासमयानां द्रव्यार्थतानियमो ?, यावता प्रदेशार्थताऽपि तेषां विद्यते एव, तथाहि - यथाऽनन्तानां परमाणूनां समुदायः स्कन्धो भण्यते स च द्रव्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy