SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२१/२८३ दव्वठ्ठयाए सव्वत्थोवा, धम्मत्थिकाए अधम्मत्थिकाए य एएसि णं दोनिवि तुल्ला पएसट्टयाए असंखेजगुणा, जीवत्थिकाएदवट्ठयाएअणंतगुणे से चेव पएसट्टयाए असंखेजगुणे, पोग्गलस्थिकाए दव्वट्ठयाए अमंतगुणे से चेव पएसट्टयाए असंखेजगुणे, अद्धासमए दवट्ठपएसट्टयाएअणंतगुणे, आगासस्थिकाए पएसट्टयाए अनंतगुणे। वृ. धर्मास्तिकायोऽधर्मास्तिकाय आकाशा एते त्रयोऽपि द्रव्यार्थतया-द्रव्यमेवार्थो द्रव्यार्थः तस्य भावो द्रव्यार्थता तया द्रव्यरूपतया इत्यर्थः तुल्याः-समानानन्तः, प्रत्येकमेकसङ्ख्याकत्वात्, अत एव सर्वस्तोकाः,तेभ्यो जीवास्तिकायो द्रव्यार्थतया अन्तगुणाः, जीवानां प्रत्येक द्रव्यत्वात् तेषां च जीवास्तिकाये अनन्तत्वात्, तस्मादपि पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, कथमिति चेत्, उच्यते, इह परमाणुद्विप्रदेशकादीनि पृथक्पृथक्द्रव्याणि, तानिच सामान्यतस्त्रिधा, तद्यथा-प्रयोगपरिणतानि मिश्रपरिणतानि विश्रसापरिणतानिच, तत्र प्रयोगपरिणतान्यपि तावज्जीवेभ्योऽनन्तगुणानि, एकैकस्य जीवस्यानन्तैः प्रत्येकं ज्ञानावरणीयदर्शनावरणीयादिकर्मपुद्गलस्कन्धैरावेष्टितत्वात्, किं पुनः शेषाणि ?, ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि, तेभ्यो विश्रसापरिणतान्यनन्तगुणानि, तथाचोक्तंप्रज्ञप्ती–“सव्वत्थोवा पुग्गला पयोगपरिणया मीसपरिणया अनंतगुणा वीससापरिणया अनंतगुणा" इति, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः, तस्मादप्यद्धासमयोद्रव्यार्थतयाऽनन्तगुणः, कथमितिचेत्, उच्यते, इहैकस्यैवपरमाणोरनागते काले तत्र द्विप्रदेशिकत्रिप्रदेशकयावत्दशप्रदेशिकसङ्ख्यातप्रदेशिकासङ्ख्यातप्रदेशिकानन्तप्रदेशिकस्कन्धान्तःपरिणामितया अनन्ता भाविनःसंयोगा पृथक्पृथक्कालाः केवलवेदसोपलब्धाः, यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्विप्रदेशादिस्कन्धानां चानन्ताः संयोगाः पुरस्कृताः पृथक्पृथक्काला उपलब्धाः, सर्वेषामपि मनुष्यलोकक्षेत्रान्तर्वर्तितया परिणाम संभवात्, तथा क्षेत्कतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे अमुष्मिन् कालेऽवगाहिष्यते इत्येवमनन्ता एकस्य परमाणो विनः संयोगाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां, तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेशस्कन्धपर्यन्तानांप्रत्येकंतत्तदेकप्रदेशाधवगाहभेदतो भिन्नभिन्नकालाअनन्ता भाविनः संयोगाः, तथा कालतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिन्नाकाशप्रदेशेऽसङ्खयेया भाविनः संयोगाः एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकमसङ्खयेया भाविनः संयोगाः ततो भूयो भूयस्तेष्वाकाशप्रदेशेषु परावृत्ती कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः, यथाचैकस्य परमाणोस्तथासर्वेषांपरमाणूनां सर्वेषांच प्रत्येकंद्विप्रदेशिकादीनांस्कन्धानां, तथा भावतोऽप्ययं परमाणुरमुष्मिन्काले एकगुणकालकोभवतीत्येवमेकस्यापिपरमाणोभिन्नभिन्नकाला अनन्ताः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषांपरमाणूनां सर्वेषांच द्विप्रदेशिकादीनां स्कन्धानां पृथक् पृथक् अनन्ता भावतः पुरस्कृतसंयोगाः, तदेवमेकस्यापि परमाणोर्द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनः समया उपलब्धा;, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषांच प्रत्येकंद्विप्रदेशिका(दी)नांस्कन्धानां, नचैतत्परकिणामिकालवस्तव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरेकेचोपपद्यते, ततः सर्वमिदं तात्त्विकमवसेयं, उक्तंच For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy