SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पदं-३, उद्देशकः-, द्वारं-१२ १४७ “कोडिसहस्सपुहुत्तं मणुयलोए संजयाणं" इति वचनात्, तेभ्यः संयतासंयताः-देशविरता असङ्खयेयगुणाः,तिर्यक्पञ्चेन्द्रियाणामसङ्ख्ययातानांदेशविरतिसद्मावात्, तेभ्योनोसंयतनोऽसंयतनोसंयासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता इति, तेभ्योऽसंयता अनन्तगुणाः,वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ।। गतं संयतद्वारम्, सम्प्रत्युपयोगद्वारमाह -पदं-३-दारं-१३:- "उपयोगः" मू. (२७५) एएसिणंभंते! जीवाणंसागारोवउत्ताणंअनागारोवउत्ताण यकयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा?, गोयमा ! सव्वत्थोवा जीवा अनागारोवउत्ता सागारोवउत्ता संखेजगुणा। वृ. इहानाकारोपयोगकालः सर्वस्तोकः साकारोपयोगकालस्तु सङ्घयेयगुणः ततो जीवा अप्यनाकारोपयोगोपयुक्ताः सर्वस्तोकाः, पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात्, तेभ्यः साकारोपयोगोपयुक्ताः सङ्घयेयगुणाः, साकारोपयोगकालस्य दीर्घतया तेषां पृच्छासमये बहूनां पराप्यमाणत्वात् ।। गतमुपयोगद्वारम्, इदानीमाहारद्वारमाह -पदं-३-दारं-१४:- "आहार" मू. (२७६) एएसिणं भंते ! जीवाणं आहारगाणं अनाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सव्वत्थोवा जीवा अनाहारगा आहारगा असंखेज्जगुणा। वृ. सर्वस्तोका जीवा अनाहारकाः, विग्रहगत्यापनादीनामेवानाहारकत्वात्, उक्तंच॥१॥ "विग्गहगइमावन्नै केवलिणो समुहया अयोगी य । सिद्धा य अनाहारा सेसा आहारगा जीवा॥" तेभ्यःआहारका असङ्खयेयगुणाः, ननुवनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां चाहारकतयापि लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, इहसूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्खयेयाः, तत्राप्यन्तर्मुहूर्तसमयराशितुल्याः सूक्ष्मनिगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते, ततोऽनाहारका अप्यतिबहवः सकलजीवराश्यसङ्ख्येयभागतुल्या इति तेभ्यः आहारका असङ्खयेयगुणा एव नानन्तगुणाः ।।गतमाहारद्वारम्, इदानीं भाषकद्वारमाह -पदं-३-दारं-१५:- "भाषकः" मू. (२७७) एएसिणंभंते! जीवाणंभासगाणंअभासगाण यकयरे कयरेहितोअप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा भासगा अभासगा अनंतगुणा वृ.सर्वस्तोका भाषकाः-भाषालब्धिसम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात्, अभाषकाभाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् ।। गतं भाषकद्वारं, सम्प्रति परीत्तद्वारमाह -:पदं-३-दारं-१६:-"परित्तः" मू. (२७८) एएसिणं भंते ! जीवाणं परीत्ताणं अपरीत्ताण य नोपरीत्तनोअपरीत्ताण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy