________________
१४६
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/१०/२७२
संभवात्, तेभ्योऽसङ्खयेयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानामप्यवधिज्ञानसंभवात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, संज्ञितिर्य
पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाञ्चिदाभिनिबोधिकश्रुतज्ञानभावात्, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, “जत्थ मइनाणं तत्थ सुयनाणं जत्थ सुयनाणं तत्थ मइनाणं" इति वचनात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्त्वात् । उक्तं ज्ञानिना मल्पबहुत्वम्, इदानीं तप्रतिपक्षभूतानामज्ञानिनामल्पबहुत्वमाह
सर्वस्तोका विभङ्गज्ञानिनः, कतिपयानामेव नैरयिकदेवतिर्यक्पञ्चेन्द्रियमनुष्याणां विभङ्गभावात्, तेभ्योमत्यज्ञानिनः श्रुताज्ञानिनोऽनन्तगुणाः, वनस्पतीनामपिमत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् स्वस्थाने तु परस्परंतुल्याः “जत्थ मइअन्नाणं तत्थ सुयअन्नाणं जत्य सुयअन्नाणंतत्थमइअन्नाणं" इतिवचनात्॥सम्प्रत्युभयेषांज्ञान्याज्ञानिनांसमुदायेनाल्पबहुत्वमाह
सर्वस्तोका मनःपर्यवज्ञानिनः तेभ्योऽसङ्ख्येयगुणा अवधिज्ञानिनः तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, अत्र भावना प्रागेवोक्ता, तेभ्योऽसङ्खयेयगुणा विभङ्गज्ञानिनः, यस्मात्सुरगतौ निरयगतौ च सम्यग्दृष्टिभ्यो मिथ्यादृष्टयोऽसङ्खयेयगुणाः पठ्यन्ते, देवनैरयिकाश्च सम्यग्दृष्टोऽवधिज्ञानिनो मिथ्यादृष्टो विभङ्गज्ञानिन इत्यसङ्खयेयगुणाः, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्यो मत्यज्ञानिनः श्रुतज्ञानिनश्चानन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात्, तेषां च मत्यज्ञानिश्रुताज्ञानित्वात्, स्वस्थाने तु द्वयेऽपि परस्परंतुल्याः।। गतं ज्ञानद्वारम्, इदानीं दर्शनद्वारमाह
-पदं-३-दारं-११:- "दर्शनं" मू. (२७३) एएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचक्खुदंसणीणं ओहिदसणीणं केवलदसणीण य कयरे कयरेहितो अप्या वा जाव विसेसाहिया वा?, गो० सव्वत्थोवा जीवा ओहिदंसणी चक्खुदसणी असंखेनगुणा केवलदसणी अनंतगुणा अचक्खुदंसणी अनंतगुणा।
.सर्वस्तोका अवधिदर्शनिनः, देवनैरयिकाणां कतिपयानांच संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामवधिदर्शनभावात्, तेभ्यश्चक्षुर्दशनिनोऽसङ्ख्येयगुणाः, सर्वेषां देवनैरयिकगर्भजमनुष्याणां संज्ञितिर्यक्पञ्चेन्द्रियाणां असंज्ञितिर्यक्पञ्चेन्द्रियाणां चतुरिन्द्रियाणां च चक्षुर्दर्शनभावत्, तेभ्यः केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्त्वात्व,तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धभ्योऽप्यननत्वात् ॥ गतं दर्शनद्वारम्, अधुना संयतद्वारमाह
-पदं-३-दारं-१२:- "संयतः" भू. (२७४) एएसिणं भंते! जीवाणं संयताणं असंयताणं संजयासंजयाणं नोसंजयनोअसंजयनोसंजयासंजयाण य कयरो कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सवत्थोवाजीवा संजया संजया संयताअसंखेजगुणा नोसंयतानोअसंजयानोसंयतासंयता अनंतगुणा असंजया अनंतगुणा ॥
वृ.सर्वस्तोकाः संयताः,उत्कृष्टपदेऽपितेषांकोटीसहस्रपृथकत्वप्रमाणतया लभ्यमानत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org