________________
१२८
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/१/२६०
चोपर्यवतिष्ठन्ते न मनागपि वक्रं गच्छन्ति,
सिध्यन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पञ्चस्वैरावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिधद्यभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः,पूर्वविदेहानाभरतैरावतक्षेत्रेभ्यः सङ्ख्येयगुणतयातद्गतमनुष्याणामपि सङ्ख्येयगुणत्वात् तेषां च सर्वकालं सिद्धिभावात्, तेभ्यः पश्चिमायां दिशि विशेषाधिकाः, अधोलोकिकग्रामेषु मनुष्यबाहुस्यात् । गतं दिग्द्वारं इदानीं गतिद्वारम्, तत्रेदमादिसूत्रम्
-पदं-३-दारं-२:- "गतिः":मू. (२६१) एएसिणं भंते ! नेरइयाणं तिरक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति० समणेणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा?, गोयमा सव्वत्थोवा मणुस्सा नेरइयाअसंखेज्जगुणा देवा असंखेजगुणा सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा ।। एएसिणंभंते! नेरइयाणंतिरिक्खजोणियाणंतिरिक्खजोणीणीणंमणुस्साणंमणुस्सीणं देवाणं देवीणं सिद्धाण य अट्ठगति० समसेणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवाओ मणुस्सीओ, मणुस्सा असंखेज्जगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणियीओअसंखेजगुणाओ, देवाअसंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अनंतगुणा, तिरिक्खजोणिया अनंतगुणा ॥
वृ. सर्वस्तोका मनुष्याः, षन्नवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात्, सचषन्नवतिच्छेदनकदायी राशिरग्रेदर्शयिष्यते, तेभ्यो नैरयिकाअसङ्ख्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषुश्रेणिषुयावन्तोनभः प्रदेशास्तावप्रमाणत्वात्, तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणांज्योतिष्काणांच प्रत्येकंप्रतरासङ्घयेयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात, तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ।
तदेवं नेरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पचनामल्पबहुत्वमुक्तम्, इदानीं नैरयिकतिर्यग्योनिकतैर्यग्योनिकीमनुष्यामानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो – मनुष्यस्त्रियः, सङ्खयेयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्ख्येयगुणाः, इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात्, तेच संमूर्छनजा वान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खयेयाः प्राप्यन्ते, तेभ्यो नैरयिकाअसङ्ख्येयगुणाः, मनुष्या हि उत्कृष्टपदे ऽपि श्रेणयसङ्ख्येयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयिकास्त्वङ्गुलमात्रक्षेत्रप्रदेशराशिसत्कतूतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाश प्रदेशराशिप्रमाणाः ततो भवन्त्यसङ्खयेयगुणाः तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्खयेयगुणाः, प्रतरासङ्घयेयभागवत्तच्यसङ्खयेयश्रेणिनभः-प्रदेशराशिप्रमाणत्वात्, ताभ्योऽपि देवा असङ्खयेयगुणाः, असङ्खयेयगुणप्रतरासङ्ख्येयभागवत्य- सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात्, तेभ्योऽवि देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात्, ताग्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यभ्यो निका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ।। गतं गतिद्वारम्॥इदानीं इन्द्रियद्वारमधिकृत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org