________________
पदं-३, उद्देशक:-, द्वारं - १
दाक्षिणात्या असङ्खयेयगुणाः, एवं सर्वास्वपि क्रमेणं वाच्यम् ॥
तिर्यक्पञ्चेन्द्रियसूत्रं त्वप्कायसूत्रवद् भावनीयम् ।। सर्वस्तोका मनुष्या दक्षिणस्यामुत्तरस्यां च, पञ्चानां भरतक्षेत्राणां पञ्चानामैरावतक्षेत्राणामल्पत्वात्, तेभ्यः, पूर्वस्यां दिशि सङ्घयेयगुणाः, क्षेत्रस्य सङ्घयेयगुणत्वात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, स्वभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ॥ दिसाणुवाएणं सव्वत्थोवा भवणवासी' इत्यादि, सर्वस्तोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायां च दिशि, तत्र भवनानामल्पत्वात्, तेभ्य उत्तरदिग्भाविनोऽसङ्घत्येयगुणाः, स्वस्थानतया तत्र भवनानां बाहुल्यात्, तेभ्योऽपि दक्षिणदिग्भाविनोऽसङ्केयेयगुणाः, तत्र भवनानामतीव बाहुल्यात्, तथाहि - निकाये निकाये चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्घयेयगुणाः ।
१२७
व्यन्तरसूत्रे भावना - यत्र सुषिरं तत्र व्यन्तराः प्रचलन्ति, यत्र धनं तत्र न, ततः पूर्वस्यां दिशि धनत्वात् स्तोका व्यन्तराः, तेभ्योऽपरस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवात्, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, स्वस्थानतया नगरावासबाहुल्यात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् ।
तथा सर्वस्तोका ज्योतिष्काः पूर्वस्यां पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेषूद्यानकल्पेषु कतिपयानामेव तेषां भावात्, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच्च, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यापृता नित्यमासते, मानसरतसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणाः किञ्चिद् व्रतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानस्तत्रोत्पद्यन्ते ततो भवन्ति उत्तराहा दाक्षिणात्येभ्यो विशेषाधिकाः ॥
तथा सौधर्मे कल्पे सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि वैमानिका देवाः, यतो यान्यावलिकाप्रविष्टानि विमानानि तानि चतसृष्वपि दिक्षु तुल्यानि यानि पुनः पुष्पावकीर्णानि तानि प्रभूतानि असङ्खयेययोजनविस्तृतानि तानि च दक्षिणस्यामुत्तरस्यां दिशि नान्यत्र, ततः सर्वस्तोकाः पूर्वस्यां पश्चिमायां च दिशि, तेभ्य उत्तरस्यां दिशि असङ्घयेयगुणाः, पुष्पावकीर्णकविमानानां बाहुल्यात् असङ्घयेयोजनविस्तृतत्वाच्च, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । एवमीशानसनत्कुमारमाहेन्द्रकल्पसूत्राण्यपि भावनीयानि ।
ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवाः, यतो बहवः कृष्णपाक्षिकास्तिर्यग्योनयो दक्षिणस्यां दिशि समुत्पद्यन्ते शुक्लापाक्षिकाश्च स्तोका इति पूर्वोत्तरपश्चिमदिग्भा विनः सर्वस्तोकाः, तेभ्यो दक्षिणस्यां दिशि असङ्घत्येयगुणाः, कृष्णपाक्षिकाणां बहूनां तत्रोत्पादात् एवं लान्तकशुक्रसहस्रारसूत्राण्यपि भावनीयानि ।
आनतादिषु पुनर्मनुष्या एवोत्पद्यन्ते, तेन प्रतिकल्पं प्रतिग्रैवेयकं प्रत्यनुत्तरविमानं चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः, तथा चाह
'तेण परं बहुसमोववन्नगा समणाउसो !' इति ॥ सर्वस्तोकाः सिद्धा दक्षिणस्यामुत्तरस्यां च दिशि, कथमिति चेत् ?, उच्यते, इह मनुष्या एव सिध्यन्ति, नान्ये, मनुष्या अपि सिध्यन्तो येष्वाकाशप्रदेशेष्विह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेषूर्ध्वमपि गच्छन्ति तेष्वेव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International