SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ प्रज्ञापनाउपाङ्गसूत्रं-१- ३/-/१/२६० उत्तरदिगपेक्षया दक्षिणस्यां दिशिभवनानां नरकावासानां चातिप्रभूतत्वात् । तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका वनस्पतयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालाद्याश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता भ्रमरादयश्चतुरिन्द्रिया इति हेतोर्वनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद् भावनीयानि नैरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्विभागभाविनो नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात्, बहूनां प्रायः सङ्घयेययोजनविस्तृतत्वाच्च, तेभ्यो दक्षिणदिग्विभागभाविनोऽसङ्ख्येयगणाः, पुष्पावकीर्णनरकावासानां तत्र बाहुल्यात्, तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात्, कृष्णापाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच्च, तथाहि - द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाश्च तेषां लक्षणमिदं - येशां किञ्चिदूनपुद्गलपरावर्त्तार्थमात्रसंसारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तं च 119 11 "जेसिमवड्डो पुग्गलपरियट्टो सेसओ य संसारो । ते सुक्क पक्खिया खलु अहिए पुन कण्हपक्खी उ ।” अत एव च स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणां स्तोकत्वात्, बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात्, कृष्णपाक्षिकाश्च प्राचुरयेण दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, तथास्वाभाव्यात्, तच्च तथास्वाभाव्यं पूर्वाचार्यैरेवं युक्तिभिरुपबृंह्यते, तद्यथा कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद् भवन्ति, बहुपापोदयाश्च कूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, यत उक्तं 119 11 "पायमिह कूरकम्मा भवसिद्धियावि दाहिणिल्लेसुं । इयतिरियमणुसायसुराइठाणेसु गच्छति ।।" ततो दक्षिणस्यां दिशि बहूनां कृष्णापाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणद्वयाच सम्भवन्ति पूर्वोत्तरपश्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः । यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्वमुक्तं, एवं प्रतिपृथिव्यापि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिहितं इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्घयेयगुणाः, तेभ्यः षष्ठपृथिव्यां तमः प्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्घयेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याः सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिदूहीनहीनतरपापकर्मकारिणश्च षष्ठ्यादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च सर्वस्तोकाः बहवश्च यथोत्तरं किञ्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्घयेयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां एवमुत्तरोत्तपृथिवीरप्यधिकृत्य भावयितव्यम्, तेभ्योऽपि तस्यामेव षष्ठ पृथिव्यां दक्षिणस्यां दिशि नारका असङ्ख्येयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्ख्येयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy