SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२५ पदं-३, उद्देशकः-, द्वार--१ सव्वत्थोवा देवा सहस्सारे कप्पे पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । -तेण परं बहुसमोववन्नगा समणाउसो! ॥ दिसाणुवाएणं सव्वत्थोवा सिद्धा दाहिणेणं उत्तरेणं, पुरच्छिमेणं संखेज्जगुणा, पच्चतअथिमेणं विसेसाहिया। दारं । वृ. दिगनुपातेन-दिगनुसारेण दिशोऽधिकृत्येतिभावः, पृथिवीकायिकाश्चिन्त्यमानाः सर्वस्तोका दक्षिणस्यां दिशि, कथमिति चेद्?, उच्यते, इह यत्र धनंतत्र बहवः पृथिवीकायिकाः यत्र सुषिरं तत्र स्तोकाः, दक्षिणस्यां दिशि बहूनि भवनपतीनां भवनानि बहवो नरकावासस्ततः सुषिरप्राभूत्यसंभवात् सर्वस्तोका दक्षिणस्यां दिशि पृथिवीकायिकाः, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानिस्तोका नरकावासाः, ततोधनप्राभूत्यसंभवात्बहवः पृथिवीकायिका इतिविशेषाधिकाः, तेभ्योऽपि पूर्वस्यां दिशि विशेषाधिकाः, रविशशिद्वीपानां तत्र भावात्, तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि, न तु एतावता साम्यं, परं लवणसमुद्रे गौतमनामा द्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः, अत्र पर आह ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकग्रामा अपि योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाःप्राप्नुवन्तिन विशेषाधिकाः, नैतदेवं, यतोऽधोलौकिकग्रामावगाहोयोजनसहस्रं, गौतमद्वीपस्य पुनः षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वं, विष्कम्भस्तस्य द्वादश योजनसहस्राणि, यच्च मेरोराभ्याधोलौकिकग्रामेभ्योऽर्वाक् हीनत्वंहीनतरत्वंतत्पूर्वस्यामपि दिशि प्रभूतगर्तादिसंभवात् समानं, ततोयद्यधोलौकिकग्रामच्छिद्रेषुबुद्धया गौतमद्वीपः प्रक्षिप्यतेतथापिस समधिक एव प्राप्यते न तुल्य इति तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः॥ उक्तं दिगनुपातेन पृथिवीकायिकानामल्पबहुत्वं, इदानीमप्कायिकानामल्पबहुत्वमाह-सर्वस्तोका अप्कायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने तेषामभावात्, तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात्, तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात्, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिणस्यामुत्तरस्यां च दिशि सर्वस्तोकास्तेजःकायिकाः, यतो मनुष्यक्षेत्रे एव बादरास्तेजःकायिका नान्यत्र, तत्रापि यत्रबहवोमनुष्यास्तत्रैतेबहवः, बाहुल्येनपाकारम्भसम्भवात्, यत्रत्वल्पेतत्रस्तोकाः, तत्रदक्षिणस्यादिशिपञ्चसुभरतेषुउत्तरस्यां दिशिपञ्चस्वैरावतेषुक्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजःकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात्, ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, स्वस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्यां दिशि सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात्, ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यबाहुल्यात् ॥ इह यत्र सुषिरंतत्र वायुः यत्र धनंतत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमित्यल्पा वायवः, पश्चिमायां दिशि विशेषाधिका;, अधोलौकिकग्रामसम्भवात्, उत्तरस्यांदिशि विशेषाधिकाः, भवननरकावासबाहुल्येन सुषिरबाहुल्यात्, ततोऽपि दक्षिणस्यां दिशि विशेषाधिकाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy