________________
१२०
-
प्रज्ञापनाउपाङ्गसूत्र-१-२/-1-/२५० सिद्धसुखराशिः ‘सर्वाद्धापिण्डितः' सर्वयासाद्यपर्यवसितयाअद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तः-अनन्तैर्वर्गमूलैरपवर्तितः, अनन्तैवर्गमूलैः तावदपवर्तितो यावत् सर्वातालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनैः सिदअधात्वाद्यसमयभाविसुखमात्रतां प्राप्त इति भावः, ।
सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्तप्रसर एवेति ज्ञापनार्थं पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह किल विशिष्टाह्यादरूपं सुखं परिगृह्यते, ततश्च यत आरभ्यशिष्टानांसुखशब्दप्रवृत्तिस्तमाह्यादमवधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसावालादो विशिष्यते यावदनन्तगुणवृध्द्या निरतिशयनिष्ठामुपगतः,
सोऽयमत्यन्तोपमातीतैकान्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमालादः सदा सिद्धानां, तस्माचारतः प्रथमाचोध्वमपान्तरालवर्तिनो ये गुणास्तारतम्येनालादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-'सव्वागासे न माइज्जा' इति, अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायाद् ? इति पूर्वसूरिसंप्रदायः॥
साम्प्रतमस्य निरुपमतां प्रतिपादयतिमू. (२५१) जह नाम कोइ मिचो नगरगुणे बहुविहे वियाणंतो।
नचएइ परिकहेउं उवमाए तहिं असंतीए॥ वृ.'जह नाम' इत्यादि, यता नाम कश्चिद् म्लेच्छो नगरगुणान् गृहनिवासादीन्बहुविधान्अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छोभ्यो न शक्नोति परिकथयितुं, कस्मान्न शक्नोति ? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद् हेतौ सप्तमी, तत उपमाया अभावादिति द्रष्टव्यं, एष गाथाऽक्षरार्थः, भावार्थः कथानकादवसेयः, एगो महारनवासी मिच्छो रन्ने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सक्कारिऊण जनवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उवगारित्ति गाढमुपचरितो, जहा राया तहा चिट्ठइ, धवलधराइभोगेण विभासा, कालेण रनसरिउमारद्धो, रन्ना विसज्जिओ, तत्तो रनिगा पुच्छंति-'केरिसंनयरंति' ? सो वियाणंतोऽवि तत्थोवमाभावा न सक्कइ नयरगुणे परिकहेउं । एस दिटुंतो, अयमर्थोपनयःमू. (२५२) इय सिद्धाणं सोखं अनोवमं नत्थि तस्स ओवम्म।
किंचि विसेसेणित्तो सारिक्खमिणं सुणए वोच्छं। वृ. 'इय सिद्धाणं इत्यादि, इत्येवं सिद्धानां सौख्यमनुपमवर्तते, किमिति?,तत आह-यतो नास्ति तस्यौपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चिविशेषेण 'इतो' इति आर्षत्वाद् अस्येत्यर्थः, साहेश्यमिदं-वक्ष्यमाणं श्रृणुतमू. (२५३) जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई।
तण्हाछुहाविमुक्को अच्छिज जहा अमियतित्तो॥ वृ. 'जह सव्व' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इतिभोजनं सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तृविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, मू. (२५४) इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा।
सासयमव्वाबाहं चिटंति सही सहं पत्ता॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org