SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पदं -२, उद्देशक:-, द्वारं १२१ वृ. 'इय' इत्यादि, एवं निर्वाणं- मोक्षमुपगताः सिद्धाः सर्वकालं -साद्यपर्यवसितं कालं तृप्ताः - सर्वथौत्सुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम् - अनन्यसदेशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति । एतदेव सविशषतरं भावयति मू. (२५५) सिद्धत्ति य बुद्धत्ति य पारगयत्ति । य परंपरगयत्ति उ म्मुक्क कम्मकवया अजरा अमरा असंगा य ॥ वृ. 'सिद्धत्ति य' इत्यादि, सितं - बद्धमष्टप्रकारं कर्म ध्मातं- भस्मीकृतं यैस्ते सिद्धाः “पृषोदरादयः” इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम् 119 11 “कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ता अभिप्पाए, तवे कम्मक्खए इय ॥” ततः कर्मादिसिद्धव्यपोहाय आह- 'बुद्धा' इति, अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिस्वभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यगेन स्थितवन्तः कैश्चिदिष्यन्ते 119 11 “संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥” इति वचनात्, ततस्तन्निरासार्थमाह- 'पारगता' इति, पारं - पर्यन्तं संसारस्य प्रयोजनव्रातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाप्तया निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते, तथोक्तम्"नैकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यचारित्ररूपया, तद्वन्मुक्तिः क्वचिन्नकिम् ? ॥" 119 11 ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया - ज्ञानदर्शनचारित्ररूपया मिथ्याष्टिसासादन- सम्यग्मिथ्याध्ष्टयअविरत सम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसंपरायसूक्ष्मसंपरायोपशान्तमहक्षीण मोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते 'तीर्थनिकारदर्सनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह 'उन्मुक्तकर्मकवचाः' उत्- प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात् उक्तं च 119 11 "वयसो हाणीह जरा, पाणच्चाओ य मरणमादिट्ठे । सइ देहंमि तदुभयं तदभावे तं न कस्सेव ॥" निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अणुहोंती सासयं सिद्धा ॥ मू. (२५६) वृ. असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्णं - लङ्घितं सर्वदुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कुतः ? इत्याह- 'जातिजरामरणबंधणविमुक्का' जातिः - जन्म जरावयोहानिलक्षणा मरणं - प्राणत्यागरूपं बन्धनानि - तन्नबन्धनरूपाणि कर्माणि तैर्विशेषतो - निःशेषा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy