________________
पदं-२, उद्देशकः-,
द्वारं
सम्प्रति सिद्धिनेव लक्षणतः प्रतिपादयतिमू. (२४६)
११९
असरीरा जीवघना उवउत्ता दंसणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धाणं ।।
ब्र. 'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च वनदोदरादिशुषिरूरणात् जीवघना उपयुक्ता दर्शने - केवलदर्शने ज्ञाने च - केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं,
तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकारं सामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रे मकारोऽलाक्षणिको, लक्षणं तदन्यव्यावृत्तिस्वरूपमेतत् - अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थं, सिद्धानां निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेषविषयतामुपदर्शयतिमू. (२४७)
केवलनाणुवउत्ता जाणंता सव्वभावगुणभावे । पासंता सव्वओ खलु केवलदिट्ठीहिऽ नंताहिं ।।
वृ. 'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तः करणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति - अवगच्छन्ति सर्वभावगुणभावान्- सर्वपदार्थगुणपर्यायान्, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः - सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु - खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलध्ष्टिभिरनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्सनानां चानन्तता सिद्धानामनन्तत्वात्, इहादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थं ॥
सम्प्रति निरुपमसुखभाजस्ते इति दर्शयति
मू. (२४८) नवि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ।।
वृ. 'नवि अत्थि' इत्यादि, नैवास्ति मनुष्याणां चक्रवर्त्यादीनामपि तत्सौख्यं नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्याबाधामुपगतानां न विविधाऽऽबाधा अव्याबाधा तां उप-सामीप्येन गतानां प्राप्तानां ।। यथा नास्ति तथा भङ्गयोपदर्शयतिमू. (२४९) सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं ।
नवि पावइ मुत्तिसुहं नंताहिं वग्गवग्गूहिं ॥
वृ. 'सुरगणसुहं' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं 'समस्तं ' संपूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैर्वर्गैर्वर्गितं तथाऽप्येवं प्रकर्षगतमपि मुक्तिसुखं-सिद्धिसुखं न प्राप्नोति ।। एतदेव स्पष्टतरं भङ्गयन्तरेण प्रतिपादयति
पू. (२५०)
सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जइ हवेज्जा ।
सोऽनंतवग्गभइओ सव्वागासे न माइज्जा ।।
वृ. 'सिद्धस्स सुहो रासी' इत्यादि, सुखानां राशिः सुखराशि:- सुखसंघातः सिद्धस्य सुखराशिः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International