SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ प्रज्ञापनाउपाङ्गसूत्र-१-२/-/-/२४२ ॥२॥ सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु ? । सा किर तित्थयरेसु सेसाणं सिज्झमाणाणं ॥ ॥३॥ ते पुण होज्ज बिहत्था कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥" साम्प्रतमुक्तानुवादेनैवसंस्थानलक्षणं सिद्धानामभिधत्सुराहमू. (२४३) ओगाहणाइ सिद्धा भवत्तिभागेण होति परिहीणा । संठाणमनित्यंथं जरामरणविप्पमुक्काणं॥ वृ. 'ओगाहणाओ' इत्यादि, सुगमं, नवरं अनित्थंथं' इति इदंप्रकारमापन्नमित्थं इतत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताकारतमिति भावः, योऽपिच सिद्धादिगुणेषु सिद्धे नदीहेन हस्से' इत्यादिनादीर्घत्वादीनां प्रतिषेधः कृतः सोऽपिपूर्वाकारापेक्षयासंसअथानस्यानित्थसंस्थत्वातच्प्रतिपत्तव्यो, नपुनःसर्वथा संस्थानस्याभावतः, आह च भाष्यकृत्॥१॥ "सुसिरकपरिपूरणाओ पुव्वागारनहाववत्थाओ। संठाणमणित्यंत्थं जं भणियमणिययागारं ॥ ॥२॥ एत्तोच्चिय पडिसेहो सिद्धाइगुणेसुदीहयाईणं । जमणित्थंथं पुव्वागाराविक्खाए नाभावो ॥" नन्वेते सिद्धाः परस्परं देशभेदेने व्यवसत्थिता उत नेति? नेति तद् ब्रूमः कस्मादिति चेत्, मू. (२४४) जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का। अन्नोऽन्नसमोगाढा पुट्ठा सव्वेवि लोगंते ॥ वृ. 'जत्थ य' इत्यादि, यत्रैव देशेचशब्दस्य एवकारार्थत्वात् एकः सिद्धो-निवृ-तस्तत्रानन्नता भवक्षयविमुक्ताः, अत्र भवक्षयग्रहणेनस्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात्, धर्मास्तिकायादिवत्, तथा स्पृष्टा-लग्नाः सर्वेऽपि लोकान्ते। मू. (२४५) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा। तेऽविय असंखिज्जगुणा देसपएसेहिं पुट्ठा॥ वृ. 'फुसई' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमशः सिद्धः, तथा तेऽपि सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य यदवगाहनक्षेत्रंतत्रैकस्मिन्नपिपरिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरेतुयेतस्य क्षेत्रस्यैकैकंप्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृध्धा येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकंप्रदेशंपरित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुः- पञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्याये समवगाढास्ते परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, अवगाढप्रदेशानमसंख्यातत्वात्, आह च॥१॥ “एगक्खेत्तेऽनंता पएसपरिवुडिहाणिओ तत्तो। हुंति असंखेज्जगुणाऽसंखपएसो जमवगाढो॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003314
Book TitleAgam Suttani Satikam Part 10 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy