________________
पदं - २, उद्देशक:-, द्वारं
मू. (२३९)
जं संठाणं तु इहं भवं चयंतस्स चरिमसमयंमि । आसी य पदेसघनं तं संठाणं तहिं तस्स ॥
वृ. 'जं संठाणं तु इहं' इत्यादि, यत्संस्थानं यावत्प्रमाणं संस्थानं इह - मनुष्यभवे आसीत् तदेव भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं त्यजतः - परित्यजतः, काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन वदनोदरादिरन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघनमासीत्, 'तं संठाणं तहिं तस्स' इति तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र - लोकाग्रे तस्य - सिद्धस्य, नान्यदिति । साम्प्रतमुत्कृष्टावगाहनादिभेदभिन्नामवगाहनामभिधित्सुराहमू. (२४०)
११७
तिनि सया तित्तीसा धनुत्तिभागो य होइ नायव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया ।
वृ. 'तिनि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि - त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थंकरगणधरैः, सा च पञ्चधनुःशततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपत्नी, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं' इति वचनात्, मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते ? इति नैष दोषः, मरुदेवाया नाभेः किञ्चिदून- प्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनुः शतप्रमाणेति न कश्चिद्दोषः, अपिच - हस्तिस्कन्धाधिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत्"कह मरुदेवामाणं ? नाभीतो जेण किञ्चिदूणा सा । तो किर पंचसयच्चिय अहवा संकोचओ सिद्धा ।" चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ।।
119 11
मू. (२४१)
वृ. 'चत्तारि रयणीओ' इत्यादि, चतनोरत्नयो रत्निश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना भणिता मध्यमा । आह - जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः ।
पू. (२४२)
एगा य होइ रयणी अट्टेव य अंगुलाई साहि या ।
एसा खलु सिद्धाणं जहन्न ओगाहणा भणिया ।।
वृ. 'एगा य होइ' इत्यादि, एका रत्निः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, साच कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छ्रितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत
119 11
“जेट्ठा उ पंचधनुसयतनुस्स मज्झा य सत्तहत्यस्स हत्तिभागहीणा जहनिया जा बिहत्थस्स ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org