________________
११६
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/२३५
तेनचयः कलंकलीभावः-कदीमानतायश्चदिव्यसुखमनुप्राप्तानामपिपुनर्भवे-संसारेगर्भवसतिप्रपञ्चः तौसमतिक्रान्ताअत एव शाश्वतमनागतंकालं तिष्ठन्ति, 'तत्थवियतेअवेया' इत्यादि, तत्रापिच-सिद्धक्षेत्रेगताःसन्तस्ते-भगवन्तः 'अवेदाः'पुरुषवेदादिवेदरहिताः 'अवेदनाः' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाह्याभ्यन्तरसङ्गरहिताः, कस्मादेवम् ? अत आह-'संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद् विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाश्च, पुनः कथंभूताः? इत्याह पएसनिवत्तसंठाणाःप्रदेशैः-आत्मप्रदेशै तु बाह्यपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निर्वृत्तं-निष्पन्नं संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः अत्र शिष्यः पृच्छत्राहमू. (२३६) कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया।
कहिं बोदिंचइत्ता णं, कत्थ गंतूण सिजइ? ॥ वृ. 'कहिं पडिहया सिद्धा' इत्यादि 'कहिं' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात्, यथा 'तिसु तेसु अलंकिया पुढवी' इत्यादि, ततोऽयमर्थः-स्त्रकेन प्रतिहताः ?-केन स्खलिताः ? सिद्धाः-मुक्ताः, तथा कब-कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः-अवस्थिताः, तथा कब-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा कवगत्वा सिद्धयन्ति ? निष्ठितार्था भवन्ति ?, 'सिज्झइ' इत्यत्रानुस्वारलोपोद्रष्टव्यः, अथवा एकवचनोपन्यासोऽपिसूत्रशैल्या न विरोधमाक्, तथा चान्यत्रा ऽप्येवं प्रयोगः॥१॥ "वत्थगंधमलंकारं, इत्थीओ सयणाणि य।
अच्छंदाजे न भुंजंति, न से चाइत्ति वुच्चइ ।।" इति, एवं शिष्येण प्रश्ने कृते सूरिराहमू. (२३७) अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया।
. इहं बोदिं चइत्ता णं, तत्थ गंतूण सिज्झइ॥ वृ. 'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृतीयार्थे, अलोकेन-केवलाकाशास्तिकायरूपेणप्रतिहताः-स्खलिताः सिद्धाः, इहतत्रधर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनम्, न तु सम्बन्धे सति विघातः अप्रतिघत्वात्, सप्रतिघानां हि सम्बन्धे सति विघातः, नान्येषामिति, तथा लोकस्य-पञ्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिताः-अपुनरागत्या व्यवस्थिताः, तथाइहमनुष्यलोके बोन्दी-तनुत्यक्त्वातत्र-लोकाग्रेसमयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति ॥ सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराहमू. (२३८) दीहं वा हस्संवा जं चरिमभवे हविज संठाणं।
ततो तिभागहीणा सिद्धाणोगाहणा भणिया॥ वृ. 'दीहं वा हस्सं वा' इत्यादि, दीर्घ वा-पञ्चधनुःशतप्रमाणं इस्वं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यमं वा विचित्रं यच्चरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-वदनोदरादिरन्ध्रपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैरिति, अत्रगतसंस्थानप्रमाणा-पेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः॥ एतदेव स्पष्टतरमुपदर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org