________________
पदं-२, उद्देशकः-, द्वारं
१०७ जोइसियविमाणावाससयसहस्साणंचउण्हंसामानियसाहस्सीणंचउण्हंअग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणंसत्तण्हं अनीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सणंजाव अन्नेसि च बहूणं जोइसियाणं देवाणं देवीण य आहेवचं जाव विहरंति
वृ.ज्योतिष्कसूत्रे अद्धकविठ्ठगसंठाणसंठियाइं अर्द्ध कपित्थस्य अर्द्धकपित्थं तस्य संस्थान तेन संस्थितानि, अत्राक्षेपपरिहारौ चन्द्रपज्ञप्टिटीकायां सूर्यप्रज्ञप्तिटीकायां चाभिहिताविति ततोऽवधा?, 'सव्वफालिहमया' इतिसर्वात्मना स्फटिकमयानि, तथाअभुयद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृष्टा-प्रबलतया सर्वासुदिक्षुप्रसृता याप्रभा-दीप्तिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरत्नानां या भक्तयोविच्छित्तिविशेषास्ताभिश्चित्राणि-आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउ«यविजयवेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः--- अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्श्वकर्णि-कोच्यते तप्रधाना वैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः पताकाःछत्रातिछत्राणि-उपर्युपरिस्थितानि छत्राणितैः कलितानि वातोद्भूतविजयवैजयन्तीपताकाच्छत्रातिच्छत्रकलितानि तुङ्गानि-उच्चानि,
तथा गगनतलम्--अम्बरतलं अनुलिखद्-अतिलङ्घयत् शिखरं येषां तानि गगनतलानलिखच्छिखराणि, तथा जालानि-जालकानि तानिच भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव-बहिष्कृतमिव पञ्जरोन्मीलितवद्, तथाहि-किल किमपि वस्तु पञ्जरात्- वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्ताविनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्चमित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि,
तथा नानामणियमयीभिर्दामभिरलङ्क तानि नानामणिमयदामालङ्क तानि, तथा अन्तर्बहिश्च श्लक्ष्णानि-मसृणानि तथा तपनीयंसुवर्णविशेषस्तन्मय्या रुचिरायाः वालुकायाः-सिकतायाः प्रस्तटः-प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पर्शानि वा,
शेषं प्राग्वत् यावत् ‘बहस्सई चंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः, कथंभूता? इत्याह-तत्पतपनीयकनकवर्णा-ईषद्रक्तवर्णाः, तथा ये च ग्रहाउक्तव्यतिरिक्ता ज्योतिश्चक्रेचारंचरन्ति केतवो ये चगतिरतिकाःयेचाष्टाविंशतिविधानक्षत्रदेवगणास्ते सर्वेऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीयकनकवर्णाः, तारकाः पञ्चवर्णाः,
एतेच सर्वेथपिस्थितलेश्या अवस्खथिततेजोलेश्याकाः तथा येचारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्गेन-स्वस्वनामाङ्गेन प्रकटितं चिह्न मुकुटे येषांते प्रत्येकस्वृनामाङ्गप्रकटितचिह्नमुकुटाः, किमुक्तंभवति?-चन्द्रस्यमुकुटेचन्द्रमण्डललाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org