________________
पदं - 9, उद्देशक:-, द्वारं
वृ. सितं-बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं दग्धं जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'षिधु गतौ' सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् यदिवा 'षिध संराद्धौ' सिध्यन्ति स्म - निष्ठितार्था भवन्ति स्म यद्वा 'षिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म - शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्या अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुण- सन्दोहत्वात् उक्तं च
119 11
“ध्यातं सितं येन पुराणकर्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ।। " सिद्धाश्च नामादिभेदतोऽनेकधा ततो यथोक्तसिद्धप्रतित्त्यर्थं विशेषणमह - 'व्यपगतजरामरणभयान्' जरावयोहनिलक्षणा मरणं - प्राणत्यागरूपम् भयम्-इहलोकादिभेदात्सप्तप्रकारम्, उक्तं च-- "इहपरलोगादाणं अकम्हआजीवमरणमसिलोए' इति, विशेषतः - अपुनर्भावरूपतया अपगतानि-परिभ्रष्टानि जरामरणभयानि योभ्यस्ते तथा तान्, 'त्रिविधेन' मनसा वाचा कायेन, अनेन योगत्रयव्यापारविकलं द्रव्यवन्दनमित्याह, 'अभिवन्द्य' अभिमुखं वन्दित्वा, प्रणम्येत्यर्थः अनेन समानकर्तृकतया पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तपक्षव्यवच्छेदमाह, एकान्तनित्यानित्यपक्षे कृत्वाप्रत्ययस्यासम्भवात्, तथाहि--अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यम्, तस्य कथं भिन्नकालक्रियाद्वयकर्तृत्वोपपत्तिः ?, आकालमेकखभावत्वेनैकस्या एव कस्याश्चित् क्रियायाः सदा भावप्रसङ्गात्, अनित्यमपि प्रकृत्यैकक्षणस्थितिधर्मकम्, ततस्तस्यापि भिन्नकालक्रियाद्वयकतृत्वायोगः, अवस्थानाभावादित्यलं विस्तरेण, अन्यत्र सुचर्चितत्वात् कत्वाप्रत्ययस्योत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह - 'वंदामि जिनवरिंद' मित्यादि,
'सूर वीर विक्रान्ती' वीरयति स्म कषायादिशत्रून् प्रति विक्रामति स्मेति वीरः, महांश्चासी वीरश्च महावीरः, इदं च ‘महावीर' इति नाम न याच्छिकम्, किन्तु यथावस्थितमनन्यासाधारणं परीषहोपसर्गादिविषयं वीरत्वमपेक्ष्य सुरासुरकृतम्, उक्तं च- "अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं । देवेहिं खए महावीर" इति, अनेनापायापगमातिशयो ध्वन्यते, तं कथंभूतमित्याह-‘जिनवरेन्द्रम्' जयन्ति - रागादिशत्रूनभिभवन्ति जिनाः, तेच चतुर्विधाः, तद्यथा श्रुतजिना अवधिजिना मनःपर्यायजिना केवलिजिनाः, तत्र केवलिजिनत्वप्रतिपत्तये वरग्रहणम्, जिनानां वराउत्तमा भूतभवद्भाविभावस्वभावावभासिकेवलज्ञानकलितत्वात् जिनवराः, ते चातीर्थकरा अपि सन्तः सामान्यकेवलिनो भवन्ति ततस्तीर्थकरत्वप्रतिपत्त्यर्थमिन्द्रग्रहणम्, जिनवराणामिन्द्रो जिनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थं करनामकर्मोदयात्तीर्थकर इत्यर्थः ।
७
अनेन ज्ञानातिशयं पूजातिशयं चाह, ज्ञानातिशयमन्तरेण जिनेषु मध्ये उत्तम त्वस्य पूजातिशयमन्तरेण जिनवराणामपि मध्ये इन्द्रत्वस्यायोगात्, तं पुनः किंभूतमित्याह - त्रैलोक्यगुरुम् गृणाति यथावस्थितं प्रवचनार्थमिति गुरुः त्रैलोक्यस्य गुरुस्त्रैलोक्यगुरुः, तथाच भगवान् अधोलोकनिवासिभवनपतिदेवेभ्यस्तिर्यग्लोकनिवासिव्यन्तरनरपशुविद्याधरज्योतिष्केभ्य ऊर्ध्वलोकनिवासिवैमानिकदेवेभ्यश्च धर्मं दिदेश, तम्, अनेन वागतिशयमाह ।
एते चापायापगमातिशयादयश्चत्वारोऽप्यतिशया देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, तानन्तरेणैषामसम्भवात्, ततश्चतुस्त्रिंशदतिशयोपेतं भगवन्तं महावीरं वन्दे इत्युक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org