________________
८
प्रज्ञापनाउपाङ्गसूत्रं-१- १/-1-19
द्रष्टव्यम् ।। आह-ननु ऋषभादीन् व्युदस्य किमर्थं भगवतो महावीरस्य वन्दनम् ?, उच्यते, वर्त्तमानती- र्थाधिपतित्वेनासन्नोपकारित्वात, तदेवासन्नोपकारित्वं दर्शयतिसुयरयणनिहाणं जिनवरेणं भवियजननिव्वुइकरेणं । उवदंसिया भगवया पन्नवणा सव्वभावाणं ।।
मू. (२)
वृ. अत्र प्रज्ञापनेति विशेष्यं शेषं सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिनवरेण' न्ति जिना:- सामान्यकेवलिनः तेषामपि वरः - उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्त्तमानतीर्थाधिपतित्वाभावात्, इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीद्विनेयजन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह - 'भगवता' भगः- समग्रैश्वर्यादिरूपः, उक्तं च
119 11
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः ।
धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥"
भगोऽस्याऽस्तीति भगवान्, अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानस्वामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् तेन भगवता, परमार्हन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-‘भव्यजननिर्वृतिकरेण' भव्यः - तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः स चासौ जनश्च भव्यजनः निर्वृतिः - निर्वाणं सकलकर्ममलापगमनेन स्वस्वरूपलाभतः परमं स्वास्थ्यं तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् निर्वृतिस्तत्करणशीलो निर्वृतिकरः भव्यजनस्य निर्वृतिकरो भव्यजननिर्वृतिकरस्तेन,
आह-भव्यग्रहणमभव्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात्, तत इदमापतितंभव्यानामेव सम्यग्दर्शनादिकं करोति नाभव्यानाम्, न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात्, नैतत्सारम्, सम्यकवस्तुतत्त्वापारिज्ञानात्, भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराया प्रभवति, तथा चाह वादिमुख्यः
॥ १ ॥“सद्धर्म्मबीजवपनानधकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥"
ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्यजननिर्वृतिकरेणेत्युक्तम् । किमित्याह–‘उवदंसिय’त्तिउप- सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता - श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः, काऽसौ ? - 'प्रज्ञापना' प्रज्ञाप्यन्ते - प्ररूप्यन्ते जीवादयो भावा अनया शब्दासंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह- 'श्रुतरत्ननिधानम्' इह रत्नानि द्विविधानि भवन्ति, तद्यथा - द्रव्यरत्नानि भावरत्नानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरत्नानि श्रुतव्रतादीनि, तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरलैरिहाधिकारः, तत एवं समासः - श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रत्नानि च नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तैर्द्रव्यरलैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात्, शेषरत्नैरुपमाया अयोगात्, निधानमिव निधानं श्रुतरत्नानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org