________________
प्रज्ञापनाउपाङ्गसूत्रं -9-1-1-1
तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेत्, न किञ्चित्, कृतकृत्यत्वात्, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च- “तंच कहं वेइज्जइ ?, अगिलाए धम्म देसणाए उ" श्रोतॄणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परम्परंतु निःश्रेयसावाप्तिः, ते हि विवक्षितमध्ययनमर्थतः सम्यगवगम्य संसाराद्विरज्यन्ते, विरक्ताश्च सन्तः संसाराद्विनिर्जिगमिषवः संयमाध्वनि यथाऽऽगमं सम्यक् प्रवृत्तिमातन्वते, प्रवृत्तानां च संयमप्रकर्षवशत उपजायते सकलकर्म्मक्षयान्निःश्रेयसावाप्तिरिति, उक्तं च119 11 “सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः ।
क्रियाSS सक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥' इति,
६
अभिधेयंजीवाजीवस्वरूपं, तच्च प्राक् प्रदर्शितनामव्युत्पत्तिसामर्थ्यमात्रादवगतम् । सम्बन्धो द्वेधा- उपायोयेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तर्कानुसारिण; प्रति, तद्यथा-वचनरूपा - पन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयं, गुरुपर्वक्रमलक्षणः केवल श्रद्धानुसारिणः प्रति, तं चाग्रे स्वयमेव सूत्रकृदभिधास्यति । इदं च प्रज्ञापनाख्यमुपाङ्गं सम्यग्ज्ञानहेतुत्वादत एव परम्परया मुक्तिपदप्रापकत्वात् श्रेयो भूतम्, अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहाय स्वतो मङ्गलभूतस्याप्यस्यादिमध्यावसानेषु मङ्गलमभिधातव्यम्, आदिमङ्गलं ह्यविघ्नेन शास्त्रपारगमनार्थ, मध्यमङ्गलमवगृहीतशास्त्रार्थस्थिरीकरणार्थम्, अन्तमङ्गलं शिष्यप्रशिष्यपरम्परया शास्त्रस्याव्य- वच्छेदार्थं, उक्तं च
119 11
॥२॥
तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम्, इष्टदेवतास्तवस्य परममङ्गलत्वात्, उपयोगपदगतेन 'कइविहे णं भंते! उवओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम्, उपयोगस्य ज्ञानरूपत्वात्, ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात्, न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा चागमः"जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥"
119 11
“तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्तयुत्तरकालभाविना सिद्धाधिकार प्रतिबद्धेन
119 11
मू. (१)
"तं' मङ्गलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थत्थाविग्घपारगमणाय निद्दिवं ॥ तस्सेव य थेज्जत्वं मज्झिमयं अन्तिमंपि तस्सेव । अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥”
निच्छिन्नसव्वदुक्खा जाइजरामरणबन्धणविमुक्का । सासयमव्वाबाहं चिट्ठन्ति सुही सुहं पत्ता ॥" -इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽ दिमङ्गलसूत्रं व्याख्यायते
पदं - १ - प्रज्ञापना
ववगयजरमरणभये सिद्धे अभिवंदिऊण तिविहेणं । वंदामि जिनवरिंदं तेलोक्क गुरुं महावीरं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org