________________
७९
प्रतिपत्तिः-२, उत्कर्षतः पूर्वकोटिपृथक्त्वं, तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषोजघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्तभावनासर्वत्रापिप्रागिव, उत्कर्षतःपूर्वकोटिपृथक्त्वाभ्यधिकः पल्योपमासङ्ख्येयभागः, स च सप्त वारान् पूर्वकोटिस्थितिषूत्पद्याष्टम्वारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्खयेयभागस्थितिषूत्पद्यमानस्य वेदितव्यः ।
'मणुस्सपुरिसाणं जहा मणुस्सित्थीण मिति, मनुष्यपुरुषाणां यथा मनुष्यस्त्रीणां तथा वक्तव्यं, तच्चैवं-सामान्यतो मनुष्यपुरुषस्य क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूरत्तं, तत ऊर्द्ध मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोटयायुषो महाविदेहेषु अष्टमस्तु देवकुर्वादिषु, धर्मचरणं प्रतीत्य समयमेकं, द्वीतियसमये मरणभावात्, उत्कर्षतो देशोनापूर्वकोटी, उत्कर्षतोऽपि पूर्वकोटयायुष एववर्षाष्टकादूर्द्धचरण-प्रतिपत्तिभावात्, विशेषचिन्तायां सामान्यतः कर्मभूमकमनुष्यपुरुषः कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतम्रणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यदिकानि, तत्रान्तर्मुहूर्तभावना प्रागिव, त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि सप्त वारान् पूर्वकोटयायुः-समन्वितेषूत्पद्याष्टमंवारमेकान्तसुषमायां भरतैरावतयोस्त्रिपल्योपमस्थितषूत्पद्यमानस्य वेदितव्यानि, धर्माचरणं प्रतीत्य जघन्यत एकं समयं, सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात्, उत्कर्षतो देशोना पूर्वकोटी, समग्रचरणकालस्याप्येतावत एव भावात्।
भरतैरावतकर्मभूमकमनुष्यपुरुषोऽपि भरतैरावतक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोटयभ्यधिकानि, तानि च पूर्वकोटयायुःसमन्वितस्य विदेहपुरुषस्य भरतादौ संहृत्यानीतस्य भरतादिवासयोगाद्भरतादिप्रवृत्तव्यपदेशस्य भवायुःक्षये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यत एकं समयमुत्कर्षतो देशोना पूर्वकोटी, एतच्च द्वयमपि प्रागिव भावनीयं, पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, तच्च भूयो भूयस्तत्रैव सप्तवारानुत्पत्या भावनीयं, अत ऊर्द्धं त्ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मचरणं प्रतीत्य जघन्यत एवं समयमुत्कर्षतो देशोना पूर्वकोटी।
तथा सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्तद्भावमपरित्यजन्जन्मप्रतीत्य जघन्यत एकं पल्योपमं पल्योपमासङ्खयेयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोटयाऽभ्याधिकानि, तानि च देशोनपूर्वकोटयायुः समन्वितस्योत्तरकुर्वादौ संहतस्य तत्रैव मृत्वोत्पन्नस्य वेदितव्यानि, देशोनता च पूर्वकोटया गर्भकालेन न्यूनत्वाद्, गर्भस्थितस्य संहरणप्रतिषेधात्।
हैमवतहैरम्यवताकम्भूमकमनुष्यपुरुषोजन्मप्रतीत्यजघन्यतः पल्योपमासङ्खयेयभागन्यूनं पल्योपममुत्कर्षतः परिपूर्ण पल्योपमं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिकमेकं पल्योपमं, अत्र भावना प्रागुक्तानुसारेण स्वयं कर्तव्या।
हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषोजन्म प्रतीत्य जघन्यतो द्वे पल्योपमेपल्योपमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org