SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६२ सङ्खयेयभागन्यूने, उत्कर्षतः परिपूर्णेद्वेपल्योपमे, जघन्यतउत्कर्षतश्चतत्रैतावत आयुषः सम्भवात्, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्तायुषः संहरणाऽसम्भात्, उत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरुत्तरकुर्वकर्मभूमकमनुष्यपुरुषः क्षेत्रप्रतीत्यजघन्यतः पल्योपमासङ्खयेयभागन्यूनानि त्रीणिपल्योपमानि देशोनपूर्वकोटयधिकानि अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासङ्खयेयभागमुत्कर्षतः परिपूर्ण पल्योपमासङ्खयेयभागं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिसमभ्यधिकः पल्योपमासङ्घयेयभागः। देवाणं जा चेव ठिई सा चेव संचिट्ठणा भाणियव्वा' देवानां यैव स्थिति प्रागभिहिता सैव संचिट्ठणा' इति कायस्थितिर्भणितव्या, नन्वनेकभवभावाश्रया कायस्थिति सा कथमेकस्मिन् भवेभवति?,नैष दोषः, देवपुरुषोदेवपुरुषत्वापरित्यागेन कियन्तंकालं यावनिरन्तरं भवति? इत्येतावदेवात्र विवक्षितं, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः ‘देवाणं वा ठिई सा चेव संचिट्ठणा भाणियव्वा' इत्यतिदेशः कृतः। तदेवमुक्तं सातत्येनावस्थानमिदानीमन्तरमाह मू. (६३) पुरिसस्स णं भंते ! केवतियं कालं अंतर होइ?, गोयमा ! जह० एकं समयं उक्को० वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जह० अंतोमु० उक्को० वणस्पतिकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं । मणुस्सपुरिसाणं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा! खेत्तं पडुच्च जह० अंतोमु० उक्को० वणस्सतिकालो, धम्मचरणं पडुच्च जह० एकं समयं उक्को० अनंतं कालं अनंताओ उस्स० जाव अवड्डपोग्गलपरियट्ट देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेसंजहित्थीणं जाव अंतरदीवकाणं। देवपुरिसाणं जह० अंतो० उक्को० वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो, जह० अंतो० उक्को० वणस्सतिकालो । आनतदेवपुरिसाणं भंते ! केवतियं कालं अंतर होइ?, गोयमा! जह० पासपुहुत्तं उक्को० आणतदेवपुरिसाणं भंते ! केवतियं कालं अंतरं होइ?, गोयमा ! जह० वासपुहुत्तं उक्को० वणस्सतिकालो, एवंजाव गेवेजदेवपुरिसस्सवि। अनुत्तरोववातियदेवपुरिसस्स जह० वासपुहुत्तं उक्को० संखेजाइंसागरोवमाइंसाइरेगाई वृ. 'पुरिसस्सणं' इत्यादि, पुरुषस्य णमिति वाक्यालङ्कारे पूर्ववत् भदन्त! अन्तरंकालतः कियच्चिरं भवति?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तदवाप्रोतीत्यर्थः, तत्र भगवानाह-गौतम ! जघन्येनैकं समय-समयादनन्तरं भूयोऽपि पुरुषत्वमवाप्नोतीति भावः, इयमत्रभावना।यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्तेपुरुषवेदे समयमेकंजीवित्वातदनन्तरं म्रियते तदाऽसौ नियमाद्देवपुरुषेषूत्पद्यते इति समयमेकमन्तरं पुरुषत्वस्य, ननुस्त्रीनपुंसकयोरप श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेकः समयोऽन्तरंन भवति?, उच्यते, स्त्रीया नपुंसकस्य चश्रेण्यारूढा-ववेदकभावानन्तरंमरणेन तथाविधशुभाध्यवसायतोनियमेन देवपुरुषत्वेनोत्पादात्, उत्कर्षतो वनस्पतिकालः, सचैवमभिलपनीयः “अनंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइ मागो" इति। तदेवं सामान्यतः पुरुषत्वस्यान्तरमभिधाय सम्प्रति तिर्यकपुरुषविधयमतिदेशमाह-'जं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy