SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७८ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६१ नौवेयकदेवानां जघन्येन पञ्चविंशति सागरोपमाणि उत्कर्षतः षड्विंशति मध्यममध्यमौवेयकदेवानां जघन्यतः षड्विंशति सारोपमाणि उत्कर्षतः सप्तविंशति मध्यमोपारतनग्रैवेयकदेवानां जघन्येन सप्तविंशति सागरोपमाणिउत्कर्षतोऽष्टाविंशतिउपरितनाघस्तनौवेयकदेवानां जघन्येनाष्टाविंशति सागरोपमाणि उत्कर्षत एकोनत्रिंशत् उपरितनमध्यमग्रैवेयकदेवानांजघन्येनैकोनत्रिंशत्सागरोपमाणिउत्कर्षतस्त्रिंशत् उपरितनोपरितनग्रैवेयकदेवनांजघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि। विजयवैजयन्तजयन्तापराजितविमानदेवानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टंत्रयस्त्रिंशत्सागरोपमाणि क्वचिदेवं सूत्रपाठः-“देवपुरिसाण ठिई जहा पन्नवणाए ठिइपए तहा भाणियव्वा" इति, तत्र स्थितिपदेऽप्येवमेवोक्तास्थितिरित । उक्तं पुरुषस्यमवस्थितिमानमधुना पुरुषः पुरुषत्वममुञ्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह मू. (६२) पुरिसे णं भंते ! पुरिसे त्ति कालतो केवच्चिरं होइ?, गोयमा ! जहन्नेणं अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं तिरिक्खजोणियपुरिसे गंभंते! कालतो केवच्चिरं होइ?, गोयमा ! जहन्नेणं अंतो० उक्को० तिन्नि पलिओवमाइं पुवकोडिपुहुत्तममहियाई, एवं तं चेव, संचिट्ठणा जहा इत्थीणंजाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा।। मणुस्सपुरिसाणं भंते ! कालतो केवच्चिरं होइ ?, गोयमा! खेत्तं पडुच्च जहन्ने० अंतो० उक्को० तिन्नि पलिओवमाइंपुवकोडिपुहुत्तमब्भहियाइं, धम्मचरणं पडुच्चजह० अंतो० उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वत्थ जाव पुव्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणंजाव अंतरदीवगाणंजच्चेव ठीति सचेवसंचिट्ठणाजावसव्वट्ठसिद्धगाणं वृ. पुरुषोणमिति वाक्यालङ्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन ‘कियच्चिरं' कियन्तं कालं यावद्भवति?, भगवानाह-गौतम ! जघन्यतोऽन्तर्मुहूर्त, तावतः कालादूर्ध्व मृत्वा रूयादिभावगमनाद्, उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वं, सामान्येन तिर्यङ्नरामरभवेष्वेतावन्तंकालं पुरुषेष्वेव भासम्भवात्, सातिरेकता कतिपयमनुष्यभवैदितव्या, अतऊर्ध्वं पुरुषनामकर्मोदयाभावतो नियमत एव स्त्र्यादिभावगमनात्।। तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां तथा वक्तव्यं, तच्चैवम्-तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजहत् जघन्यतोऽन्तर्मुहूर्त, तदन्तरंमृत्वागत्यन्तरेवेदान्तरेवासंक्रमात्, उत्कर्षतस्त्रिणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवाः पूर्वकोटयायुषः पूर्वविदेहादौ (यतः) त्रीणि पल्योपमान्यष्टमे भवे दवकुरुत्तरकुरुषु (यतः) विशेषचिन्तायांजलचरपुरुषोजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं मरणभावेनतिर्यग्योन्यन्तरे गत्यन्तरे वेदान्तरे सा संक्रमात्, उत्कर्षतः पूर्वकोटिपृथक्त्वं, पूर्वकोटयायुःसमन्वितस्य भूयो भूयस्तत्रैव द्वयादिवारोत्पत्तिसम्भवात्। चतुष्पदस्थलचरपुरुषोजघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रिणिपल्योपमानि पूर्वकोटिपृथ-क्त्वाभ्यधिकानि, तानि सामान्यतिर्यकपुरुषस्येवभावनीयानि।उरःपरिसर्पस्थलचरपुरुषो भुजपरिसर्पस्थलचरपुरुषश्च जघन्यतोऽन्तर्मुहूर्तमुत्क्षतः पूर्वकोटिपृथक्त्वं, तच्च जलचरपुरुषस्येवभावनीयं।खचरपुरुषोजघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्तभावना सर्वत्रापि प्रागिव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy