________________
७५
प्रतिपत्तिः-२, लद्धं" इत्येतावन्मात्रस्यैवजघन्यस्थित्यानयनस्य करणस्य विद्यमानत्वात्, कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह॥१॥ “वग्गुकोसठिईणं मिच्छत्तुसेगेण जंलद्धं ।
सेसाणंतु जहन्नं पलियासंखेज्जगेणूणं ।।" अस्याक्षरगमनिका-इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायोदर्शनमहनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकषायमोहनयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायोगोत्रवर्गः,अन्तरायप्रकृतिसमुदायोऽन्तरावर्गः, एतेषांवर्गाणां या आत्मीया आत्मीया उत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटयादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणयामागेहृतेसतियल्लभ्यतेतत्पल्योपमासङ्ख्येयभागन्यनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थितेः परिमाणमिति।
ततस्तन्मतेन स्त्रीवेदस्यजघन्या स्थितिदर्ती सागरोपमस्यसप्तभागौ पल्योपमासङ्ख्येयभागहीनौ, तथाहि-नोकषायमोहनीयस्योत्कृष्टा स्थितिर्विशतिसागरोपमकोटीकोटयः, तासां मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागेलियमाणे सून्यं शून्येनपातयेत् लब्धौ द्वौ सागरोपमस्य सप्तभागौ तौ पल्योपमासङ्खयेयभागहीनौ क्रियेते इति।
उत्कृष्टा स्थितिपञ्चदशसागरोपमकोटीकोटयः, इह स्थितिर्दिधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरबाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषांतावन्ति वर्षशतान्यबाधा, स्त्रीवेदस्य चाधिकृतस्योत्कृष्टा स्थिति पञ्चदश सागरोपमकोटीकोटयस्ततः पञ्चदश वर्षशतान्यबाधा, तथा चाह
“पन्नरस वाससयाइं अबाहा" इति किमुक्तं भवति? - स्त्रीवेदकमं उत्कृष्टस्थितिकं बद्धं सत्वरुपेण पञ्चदश वर्षशतानि यावन्न जीवस्य स्वविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात्, तथा चाह-“अबाहूणिया" इत्यादि, 'अबाधोना अबाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोनः' अबाधाकालपरिहीनः कर्मनिषेकःकर्मदलिकरचनेति।
सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूपः ? इत्यावेदयन्नाह-'इस्थिवए गंभंते!' इत्यादी, स्त्रीवेदोणमितिपूर्ववत्भदन्त! '
किंप्रकारः' किंस्वरूपः प्रज्ञप्तः?, भगवानाहगौतम ! फुम्फुकाग्निसमानः, फुम्फुकशब्दो देशीत्वात्कारीषवचनस्ततः कारीषाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः।
उपसंहारमाह-‘सेत्तं इत्थियाओं' ।तदेवमुक्ताः स्त्रियः, सम्प्रति पुरुषप्रतिपादनार्थमाह
मू. (६०) से किं तं पुरिसा?, पुरिसा तिविहा पन्नत्ता, तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा॥ से किंतंतिरिक्खजोणियपुरिसा?, २ तिविहा पन्नत्ता, तंजहा-जलयरा थलयरा खहयरा, इथिभेदो भाणितब्बो, जाव खहयरा, सेत्तं खहयरा सेत्तं खहयरतिरिक्खजोणियपुरसा । से किंतं मणुस्सपुरिसा?, २ तिविधा पन्नत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org