SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/६० अंतरदीवगा, सेत्तं मणुस्सपुरिसा ॥से किं तं देवपुरिसा?, देवपुरिसा चउब्विहा पण्णत्ता, इत्थीभेदो भाणितब्बो जाव सबट्टसिद्धा। वृ. ‘से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः?, पुरुषास्त्रिविधाः प्रज्ञप्ताः, तद्यथातिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषाः ?, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रज्ञप्तास्तद्यथा-जलचरपुरुषाः स्थलचरपुरुषाः खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च। देवसूत्रमाह-‘से किंत'मित्यादि, अथ केते देवपुरुषाः?, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तराः पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपन्नकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता ग्रैवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह-“जाव अणुत्तरोववाइया" इति । उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह मू. (६१) पुरिसस्सणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जह०-अंतीमु० उक्को० तेत्तीसं सागरोवमाइं।तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती साचेव भणियव्वा ।। देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति । ताव ठिती जहा पन्नवणाए तहा भा० वृ. 'पुरिसस्सणंभंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतोभदन्त! कियन्तं कालंयावस्थिति प्रज्ञप्ता ?, भगवानाह-जघन्यतोऽन्तर्मुहूर्त, तत ऊर्ध्व मरणभावात्, उत्कर्षतम्रयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् । तिर्यग्योनिकानामौधिकानांजलचराणांस्थलचराणांखचराणां स्त्रियाया स्थितिरुक्तातथावक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्वविदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्षरम्यकस्य देवकुरुत्तरकुरूकस्यान्तरद्वीपकस्य यैवात्मीये आत्मीये स्थाने स्त्रयाः स्थिति सैव पुरुषस्यापि वक्तव्या, तद्यथा सामानिकतिर्यग्योनिकपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरुषाणांजघन्येनान्तमुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, उर-परिसर्पस्तलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्खयेयभागः, सामान्यतोमनुष्यपुरुषाणांजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रणि पल्योपमानि, धर्मचरममधिकृत्यजघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्यलिङ्गप्रव्रज्याप्रतपत्तिमङ्गीकृत्यवेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमितिब्रूयात्, अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरमप्रपत्तेर्बहुलभङ्ग तथाजघन्यतोऽप्यन्तर्मुहूर्तसम्भवात्, तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकंप्रायः सर्वचरणमिति प्रतिपत्यर्थं, तताचोक्तम्॥१॥ “सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागर संखंतरा होति ॥” इति। अत्र यदाद्यं व्याख्यानं तत्स्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च स्त्रीवेदचिन्तायां व्याख्यातं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy