________________
७३
प्रतिपत्तिः - २, जोतिसियदेवित्थियाओ संखेज्जगुणाओ ॥ एतासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणंखहयरीणं मणुस्सित्थीयाणं कम्मभूमियाणं अकम्मभूमियाणंअंतरदीवियाणं देवित्थीणं भवणवासियाणं वाणमंतरीणं जोतिसियाणं वेमाणिणीण य कयराओ २ हिंतो अप्पा वा बहुआ वातुल्ला वा विसे०?, गो०! सव्वत्थोवा अंतरदीवगअकम्मभूमगमणुस्सित्थियाओ देवकुरुउत्तरकुरुअकम्मभूमग- मणुस्सित्थियाओ दोवि संखेज्जगुणाओ।
हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थियाओ दोऽवि संखेजगु०, हेमवतेरण्णवयवाअकम्मभूमग० दोऽविसंखेजगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽवितुल्लाओ संखेज्जगु०, पुव्वविदेह अवरविदेहवासकम्मभूमगमणुस्सित्थि० दोऽवि संखेजगु०।।
वेमाणियदेवित्थियाओ असंखेज्जगु०, भवणवासिदेवित्थियाओ असंखेज्जगु०, खहयरतिरिक्खजोणित्थियाओ असंखेज्जगु०, थलयरतिरक्खजो० संखिज्जगु० । जलयरति-ि रक्खजो० खेज्जगुणाओ, वाणमंतरदेवि० संखेज्जगुणाओ जोइसियदो० संखेजगुणाओ।
वृ. सर्वस्तोका मनुष्यस्त्रियः, सङ्ख्यातकोटीप्रमाणत्वात्, ताभ्यस्तिर्यग्योनिकस्त्रियोऽसङ्खयेयगुणाः, प्रतिद्वीपंप्रतिसमुद्रं तिर्यकस्त्रीणामतिबहुतया सम्भवात्, द्वीपसमुद्राणांचासङ्खयेयत्वात्, ताभ्योऽपि देवस्त्रियोऽसङ्ख्येयगुणाः, भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येकसङ्खयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयमल्पबहुत्वमाह
सर्वस्तोकाः खचरतिर्यग्योनिकम्रयः, ताभ्यः स्थलचरतिर्यग्योनि-कस्त्रयः सङ्ख्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात्, ताभ्यो जलचरस्त्रियः सङ्ख्येयगुणाः, लवणे कालोदे स्वयम्भूरमणेच समुद्रे मत्स्यानामतिप्राचुर्येण भावात्, स्वयम्भूरमण- समुद्रस्य च शेषसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतत्वात् । उक्तं द्वितीयमल्पबहुत्वम्।
अधुना तृतीयमाह-सर्वस्तोकाअन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, क्षेत्रस्याल्पत्वात्, ताभ्यो देवकुरुत्तरकुरुस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात्, स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात्, ताभ्यो हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यस्त्रियः सङ्खयेयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षयाहरिवर्षम्यकक्षेत्रस्यातिप्रचुरत्वात्, स्वस्थानेऽपिद्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया बहूनांतत्रतासां सम्भवात्, स्वस्थानेतुद्वय्योऽपि परस्परंतुल्याः, ताभ्योऽपिभरतैरावतकर्मभूमिकमनुष्यस्त्रियः सङ्खयेयगुणाः, कर्मभमूतया स्वभावत एवतत्र प्राचुर्येण सम्भवात्, स्वस्थानेतु द्वय्योऽपिपरस्परंतुल्याः, ताभ्योऽपिपूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियः सङ्खयेयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाल इव च स्वभावत एव तत्र प्राचुर्येण भावात्, स्वस्थाने तु द्वय्योऽपि परस्परंतुल्याः ॥ उक्तं तृतीयमल्पबहुत्वम् ।
अधुना चतुर्थमाह-सर्वस्तोका वैमानिकदेवस्त्रियः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यद् द्वितीयं वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्र देशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तो नभःप्रदेशा द्वात्रिंशत्तमभागहीनास्तावप्रमाणत्वात्प्रत्येक सौधर्मेशानदेवस्त्रीणां, ताभ्यो भवनवासिदेवस्त्रियोऽसङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यप्रथम वर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org