SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २!-/५७ कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्र मृत्वा जघन्यस्थितिषु देवेषूत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युत्वा कर्मभूमिषु मनुष्यपुरुषत्वेन मनुष्यस्त्रत्वेन वोत्पद्यते, देवेभ्योऽनन्तरकर्मभूमिषूत्पादाभावात्, अन्तर्मुहूर्तेन मृत्वा भूयोऽप्यकर्मभूमिजस्त्रीत्वेन जायत इति भवन्ति जघन्यतो दश वर्षसहस्राण्यन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम्, अकर्मभूमिजस्त्रियाः कर्मभूमिषु संहृत्य तावता कालेन तथाविधबुद्धिपरावृत्या भूयस्तत्रैव नयनात्, उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्युत्पत्तिवत् संहरणस्यापि नियोगतोभावात्, तथाहि काचिदकर्मभूमिका कर्मभूमौ संहृता, साचस्वायुःक्षयानन्तरमनन्तकालं वनस्पत्यादिषुसंसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना ततः केनापि संहृतेति यथोक्तं संहरणस्योत्कुष्टकालमानम् । एवं हैमवतहैरण्यवतहरिवर्ष,रम्यकवर्षदेवकुरुत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकंजघन्यमुत्कृष्टं चान्तरं वक्तव्यम्, सूत्रपाठोऽपि सुगमत्वात्स्वयं परिभावनीयः सम्प्रतिदेवस्त्रीणामन्तरप्रतिपादनार्थमाह-'देवित्थियाणंभंते!' इत्यदि, देवस्त्रिया भदन्त अनन्तरं कालतः कियच्चिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, कस्याश्चिद्देवस्त्रिया देवीभयाच्युताया गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यपर्याप्तिपरिसमाप्तिसमनन्तरंतथाऽध्यवसायमरणेन पुनर्देवत्वेनोत्पत्तिसम्भवात्, उत्कर्षतो वनस्पतिकालः, सच सुप्रतीत एव । एवमसुरकुमारदेव्या आरभ्य यावदीशानदेवस्त्रयामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात्स्वयं परिभावनीयः। सम्प्रत्यल्पबहुत्वं वक्तव्यं, तानिचपञ्च, तद्यथा-प्रथमंसामान्येनाल्पबहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यकस्त्रीणांतृतीयंत्रिविधमनुष्यस्त्रीणांचतुर्थं चतुर्विधदेवस्त्रीणांपञ्चमंमिश्रस्त्रीणां, तत्र प्रथममल्पबहुत्वमभिधित्सुराह मू. (५८) एतासिणं भंते! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देवित्थियाणं कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा मणुस्सित्थियाओ तिरिक्खजोणित्थियाओ असंखेजगुणआओ देवित्थियाओ असंखिज्जगुणाओ। एतासि णं भंते ! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खहयरीण य कतरा २ हिंतो अप्पा वा बहुया तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवाओ खहयरतिरिक्खजोणित्थियाओथलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्ख० संखेज्जगुणाओ एतासिणंभंते! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कतरा २ हिंतो अप्पा वा ४ ?, गोयमा ! सव्वत्थोवाओ अंतरदीवगअकम्मभूमगमणुस्सित्थियाओ देवकुरुत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगु०, हरिवासरम्पयवासअकम्मभूमगमणुस्सित्थियाओ दोवि तुल्लाओ संखेनगु०, हेमवतेरण्णवासअकम्मभूमिगमणुस्तित्थ्याओ दोवि तुल्लाओ संखिजगु०, भरतेरवतवासकम्मभूमगमणुस्सि० दोवि तुल्लाओ संखिज्जगुणाओ, पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सिस्थियाओ दोवितुल्लाओ संखेज्जगुणाओ। एतासिणं भंते ! देवित्थियाणं भवणवासीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीय य कयरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गो० सव्वत्थोवाओ वेमाणियदेवित्थियाओ भवणवासिदे०ि असंखेनगुणाओ वाणमंतरदेवीयाओ असंखेज्जगुणाओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy