SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति:- २, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोटयाऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीत्य जघन्यतः पल्योपमासङ्घत्येयभागन्यूनं पल्योपमासङ्घयेयभागं यावत् उत्कर्षतः पल्योपमासङ्घयेयभागम्, एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुषः सम्भवात्, मरणान्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोटयाऽभ्यधिकं पल्योपमासङ्ख्येयभागं यावत्, भावनाऽत्र प्रागिव ।। उक्ता सामस्त्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह ‘देवित्थीण’मित्यादि, देवीनांतथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिट्ठणा भाणियव्वा' तदेवावस्थानं वक्तव्यम्, अभिलापश्च ‘देवित्थी णं भंते ! देवित्थीति कालतो केवच्चिरं होइ ?' इत्यादिरूपः सुधिया परिभावनीयः । तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थानकालमानम्, इदानीमन्तरद्वारमाहमू. (५७) इत्थीणं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जह० अंतोमु० उक्को० अनंतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो, धम्मचरमं पडुच जह० एवं समयं उक्को० अनंतं कालं जाव अवड्डपोग्गल - परियट्टं देसूणं, एवं जवा पुव्वविदेह अवरविदेहियाओ । अकम्पभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जम्मणं पडुच्च जहन्नं दसवाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्को० वणस्सतिकालो, संहरणं पडुच्च जह० अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ । देवित्थियाणं सव्वासिं जह० अंतो० उक्को० वणस्सतिकालो ॥ ७१ वृ. स्त्रिया भदन्त ! अन्तरं कालतः कियच्चिरं भवति ?, सी भूत्वा सत्वाद् भ्रष्टा सती पुनः कियता कालेन स्त्री भवतीत्यर्थः, एवं गौतमेन प्रश्ने कृते सति भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते - इह काचित्स्त्री स्त्रीत्वान्मरणेन च्युत्वा भवान्तरे पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्त्तमनुभूय ततो मृत्वा भूयः स्त्रीत्वेनोत्पद्यते तत एव जघन्यतोऽन्तमन्तर्मुहूर्त्त भवति, उत्कर्षतो वनस्पतिकालः–असङ्ख्येयपुद्गलपरावर्त्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगतः स्त्रीत्वयोगात्, स च वनस्पतिकाल एवं वक्तव्यः । “अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो' इति, एवमौधिकतिर्यक्स्त्रीणां जलचरस्थलचरखचरस्त्रीणामौधिकमनुष्यस्त्रीणां च जघन्यत उत्कर्षतश्चान्तरं वक्तव्यम्, अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीयः कर्मभूमिकमनुष्यस्त्रियाः क्षेत्रं - कर्मभूमिक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत्, धर्मचरणं प्रतीत्य जघन्येनैकं समयं सर्वजघन्यस्य समयत्वात्, उत्कर्षेणानन्तं कालं देशोनमपार्द्ध पुद्गलपरावर्त्त यावत्, नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य सतत्र तत्र प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्वविदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यस्त्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यन्तर्मुहूर्त्ताभ्यधिकानि, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy