________________
प्रतिपत्तिः-१,
८
कालतो केवच्चिरं होति?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओकालओ, खेत्तओ असंखेज्जा लोगा, एवंवाउक्कइयावि" इति।सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिषुराह-'थावरस्स णं भंते! अंतर'मित्यादि सुगमं नवरमसङ्खयेया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्येया लोकाः, इत्येतावप्रमाणमन्तरं तेजस्कायिकवायुकायिकमध्यगमनेनावसातव्यम्, अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ।
__ 'तसस्सणं भंते! अंतर'मित्यादि सुगमंनवरम् ‘उक्कोसेणं वणस्सइकालो' इति, उत्कर्षतो वनस्पतिकालोवक्तव्यः, सचैवम्-“उक्कोसेणंअनंतमनंताओउस्सप्पिणीओसप्पिणीओकालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, तेणंपोग्गलपरियट्टाआवलियाए असंखेजइभागो' इति, एतावत्प्रमाणं वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतोऽन्तरस्यालभ्यमानत्वात्।
सम्प्रत्यल्पबहुत्वमाह-एतेषांभदन्त! जीवानांत्रसानांस्थावराणांचमध्ये कतरेकतमेभ्योऽल्पा वा बहवो वा कतरे कतरैस्तुल्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरेकतरेभ्यो (ऽल्पाबहुकास्तुल्या) विशेषाधिका वा?, भगवानाह-गौतम! सर्वस्तोकास्त्रसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात्, स्थावराअनन्तगुणाः, जघन्योत्कृष्टानन्ताननतसङ्ख्यापरिमाणत्वात्, उपसंहारमाह-'सेत्तंदुविहा संसारसमावन्ना जीवा' इति ।।
प्रथमा- "द्विविधां" प्रतिपत्ति समाप्ता मुनि दीपरत्न सागरेण संशोधिता सम्पादीता जीवाजीवाभिगम उपागसूत्रे प्रथमा प्रतिपत्याः मलगयगिरि आचार्य विरचिता टीका परिसमाप्ता।
(प्रतिपत्ति २ "त्रिविधा") वृ. तदेवमुक्ता द्विविधे प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र
मू. (५२) तत्थ जे ते एवमाहंसु तिविधा संसारसमावण्णगा जीवा पन्नता ते एवमाहंसु, तंजहा-इत्थि पुरिसा नपुंसका ॥
वृ. तत्र' तेषुनवसुप्रतिपत्तिषुमध्ये येआचार्यएवमाख्यातवन्तः-त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा-स्त्रियः पुरुषा नपुंसकानि ।
इह स्त्र्यादिवेदोदयाद् योन्यादिसङ्गताः स्त्र्यादयो गृह्यन्ते, तथा चोक्तम् । ॥१॥ ___ “योनिर्मूदुत्वमस्थैर्य, मुग्धताऽऽबलता स्तनौ ।
पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ ॥२॥ मेहनं खरता दाढय, शौण्डीर्यं श्मश्रुधृष्टता।
स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् ।
नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम्॥ तत्र 'यथोद्देशं निर्देश' इति स्त्रावक्तव्यतामाह-'से किं त'मित्यादि, अथ कास्ताः स्त्रियः?, सूरिराह-स्त्रियस्त्रिविधाः प्रज्ञप्ताः, तद्यथा-तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च For Private & Personal Use Only
www.jainelibrary.org
Jain Education International