________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/५१ पुद्गलपरावर्तेषुक्षेत्रतइति पदसांनिध्यात्क्षेत्रपुद्गलपरावर्तेषुयावत्यः संभवन्तिअनन्ताउत्सर्पिण्यवसर्पिण्यस्तावत्य इतिभावः, इहासङ्खयेयमसङ्खयेयभेदात्मकमतः पुद्गलपरावर्तगतमसङ्ग्येययत्वं निर्धारयति- 'तेण मित्यादि, तेणमितिवाक्यालङ्कारे पुद्गलपरावर्ताआवलिकायाअसङ्खयेयो भागः,आवलिकायाअसङ्खयेयतमे भागेयावन्तःसमयास्तावप्रमाणा इत्यर्थः, एतच्च वनस्पतिकायस्थितिमङ्गिकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः कायस्थितेरुत्कर्षतोऽप्यसङ्खयेयोत्सर्पिणीप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम्_ 'पुढविक्काइए णं भंते ! पुढविक्काइ यत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुत्तमुक्कोसेणं असंखिज्जंकालं असंखिज्जाओउस्सप्पिणिअवसप्पिणीओ कालओ, खेत्तओ असंखिज्जा लोगा, एवं आउक्काएवि" इति, यातुवनस्पतिकायस्थिति सा यथोक्तप्रमाणा तत्रोक्ता “वणस्सइकाइएणंभंते! वणस्सइकायत्तिकाल कियच्चिर होइ?, गोयमा! जहन्नेणंअंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खित्तओ अणंता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिज्जइभागे" इति।
___ एषोऽपि च वनस्पतिकायस्थितिकालः सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्॥१॥ “अस्थि अनंता जीवा जेहिं न पत्तो तसाइपरिणामो।
तेवि अनंतानंता निगोयवासं अणुवसंति ॥" साऽपि तेषामसांव्यवहारिकजीवानामनादि कायस्थिति केषाञ्चिनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुद्दबृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाञ्चिदनादि सपर्यवसाना, ये असांव्यवहारिकराशेरुवृत्य सांव्यवहारिकराशौ निपतिष्यन्ति ।
अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति? येनैवं प्ररूपणा क्रियते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते-पूर्वाचार्योपदेशात्, तथा चाह दुःषमान्धकारनिमग्नप्रवचनप्रदीपो भगवान् जिनभद्रगणि क्षमाश्रमणो विशेषणवत्याम्॥१॥ “सिझंति जत्तिया किर इह संववहारजीवरासिमज्झाओ।
इंति अणाइवणस्सइरासीओ तत्तिया तंमि॥" इति कृतंप्रसङ्गेन । सम्प्रति त्रसकायस्य कायस्थितिमानमाह- 'तसेणंभंते'इत्यादि, तसे 'ण'मिति पूर्ववत् 'त्रसइति' त्रस इत्यनेन पर्यायेणकालतः ‘कियच्चिरं कियन्तंकालं यावद्भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयंकालम्, एनमेवासङ्घयेयंकालक्षेत्राभ्यां निरूपयति–'असंखिज्जाओ' इत्यादि, असङ्खयेयाउत्सर्पिण्यवसर्पिण्यःकालतः, क्षेत्रतोऽसङ्खयेया लोकाअसङ्खयेयेषु लोकेषुयावन्तआकाश-प्रदेशास्तवांप्रतिसमयमेकैकापहारेयावत्योऽसङ्खयेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसंतेजस्कायिकं वायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयवर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम्
“तसकाएणं भंते ! तसकायत्तिकालतो कियच्चिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणंदो सागरोवमसहस्साइंसंखेज्जवासमब्भहियाई तथा “तेउक्काइएणंभंते! तेउक्काइएत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org