SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - १, भूमिं 'दालित्ताणं विदार्य समुत्तिष्ठति, चक्रवर्त्तिस्कन्धा - वारादीनामधस्ताद् भूमेरत्नरुत्पद्यत इति भावः, सा चासंज्ञिनी - अमनस्का संमूर्च्छिमत्वात्, मिध्यादृष्टि सासादनसम्यक्त्वस्यापि तस्या असम्भवात्, अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति 'अत्थेगइया अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततोऽयमर्थसन्त्येककाः केचन महोरगा येऽङ्गुलमपि शरीरावगाहनया भवन्ति, इहाङ्गुलमुच्छ्रयाङ्गुलमवसातव्यं, शरीरप्रमाणस्य चिन्त्यमानत्वात्, सन्त्येकका येऽङ्गुलपृथक्त्विका अपि-पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गुलपृथक्त्वं शरीरावगाहनमानमेषामस्तीत्यङ्गुलपृथक्त्विकाः, 'अतोऽनेकस्वरादि' तीकप्रत्ययः, एवं शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा वितस्ति, द्विवितस्तिप्रमाणा रनिर्हस्तः, कुक्षिर्द्विहस्तमाना, धनुर्हस्तचतुष्टयप्रमाणं, गव्यूतं द्विधनुःसहस्लप्रमाणं, चत्वारि गव्यूतानि योजनम्, एतच्चापि वितस्त्यादिकमुच्छ्रयाङ्गुलापक्षया प्रतिपत्तव्यं, 'ते ण'मित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलचरविशेषत्वात् स्थले जायन्ते स्थले च जाताः सन्तो ४९ Sप स्थल इव चरन्ति स्थलेऽपि चरन्ति, तथास्वाभाव्यात्, यद्येवं ते कस्मादिह न दृश्यन्ते ? इत्याशङ्कायामाह - 'ते नत्थि इहं' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इह' मानुषक्षेत्रे 'नत्थि 'त्ति न सन्ति, किन्तु बाह्येषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्वपि च पर्वतदेवनगर्यादिषु स्थलेषूत्पद्यन्ते न जलेषु, तत इह न दृश्यन्ते । 'जे यावन्ने तहप्पगारा' इति, येऽपि चान्ये तथाप्रकारा अङ्गुलदशकादिशरीरावगाहमानास्तेऽपि महोरगा ज्ञातव्याः, उपसंहारमाह 'सेत्तं महोरगा, 'जे यावण्मे तहप्पगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाह्यादरूपास्ते सर्वेऽपि उरः परिसर्पस्थल-चरसंमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाद्रष्टव्याः 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकदम्बकंच जलचरवद्भावनीयं, नवरमवगाहना जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्कर्षतो योजनपृथक्त्वं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रिपञ्चाशद्वर्षसहस्त्राणि, शेषं तथैव ॥ भुजपरिसर्पप्रतिपादनार्थमाह 'से किं तमित्यादि, अथ क ते भुजपरिसर्पसंमूर्च्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराह - भुजपरिसर्पसंमूर्च्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिका अनेकविधाः प्रज्ञप्ताः, 'तह चेव भेओ भाणियव्वो' इति, यथा प्रज्ञापनायां तथैव भेदो वक्तव्यः, स चैवम् - "तंजहा - गोहा नउला सरडा सम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पयलाया छीरविरालिया जाहा चउप्पाइया' एते देशविशेषतो वेदितव्याः, 'जेयावन्ने तहप्पगारा' येऽपि चान्ये 'तथाप्रकाराः ' उक्तप्रकारा गोधादिस्वरूपास्ते सर्वे भुजपरिसर्पा अवसातव्याः, 'ते समासतो' इत्यादि सूत्रकदम्बकं प्राग्वद्भाव-नीयं, नवरमवगाहना जघन्यतोऽङ्गुलासङ्घयेयभागप्रमाणा उत्कर्षतो धनुः पृथक्त्वं, स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाचत्वारिंशद्वर्षसहस्प्रणि, शेषं जलचरवद्रष्टव्यम्, उपसंहारमाह- 'सेत्त' मित्यादि सुगमम् । खचरप्रतिपादनार्थमाह-अथ केते संमूर्च्छिमखचरपञ्चेन्द्रियतिर्यग्योनिकाः ?, सूरिराहसंमूर्च्छिमखचरप० चतुर्विधाः प्रज्ञप्ताः, तद्यथा- 'भेदो जहा पन्नवणाए' इति, भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-“चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी । 9 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy